________________
पद्मपुराणम् ।
४४१
त्रयोविंशोत्तरशतं पर्व ।
त्रिभुवनपरमेश्वरतां यश्च प्राप्तो जिनेन्द्रशासनसक्तः ॥ १५३ ।। निधूतकलुपरजसं सम्यग्दर्शनज्ञानचरित्रमयम् ।
तं प्रणमत भवमथनं श्रमणवरं सर्वदुःखसंक्षयसक्तम् ॥ १५४ ॥ चेष्टितमनघं चरितं करणं चारित्रमित्यमी यच्छब्दाः ।
पर्याया रामायणमित्युक्तं तेन चेष्टितं रामस्य ॥ १५५ ॥ बलदेवस्य सुचरितं दिव्यं यो भावितेन मनसा नित्यम् ।
विस्मयहर्षाविष्टस्वान्तः प्रतिदिनमपेतशंकितकरणः ॥ १५६ ।। वाचयति शृणोति जनस्तस्यायुवृद्धिमीयते पुण्यं च ।।
आकृष्टखड़हस्तो रिपुरपि न करोति वैरमुपशममेति ॥ १५७ ॥ किं चान्यद्धार्थी लभते धर्म यशः परं यशसोर्थी।
राज्यभ्रष्टो राज्यं प्राप्नोति न संशयोऽत्र कश्चित्कृत्यः ॥ १५८ ॥ इष्टसमायोगार्थी लभते तं क्षिप्रतो धन धनाथीं।
जायार्थी वरपत्नी पुत्रार्थी गोत्रनंदनं प्रवरपुत्रम् ॥ १५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org