________________
पद्मपुराणम् ।
Jain Education International
४४२
त्रयोविंशोत्तरशतं पर्व |
अक्लिष्टकर्मविधिना लाभार्थी लाभमुत्तमं सुखजननम् । कुशली विदेशगमने स्वदेशगमने ऽथवापि सिद्धसमीहः ॥ १६० ।। व्याधिरुपैति प्रशमं ग्रामनगरवासिनः सुरास्तुष्यन्ति ।
नक्षत्रैः सह कुटिला अपि भान्वाद्या ग्रहा भवंति प्रीताः ।। १६१ ॥ दुतितानि दुर्भावितानि दुष्कृतशतानि यान्ति प्रलयम् ।
यत्किचिदपरमशिवं तत्सर्वं क्षयमुपैति पद्मकथाभिः ॥ १६२ ॥ या निहितं हृदये साधु तदाप्नोति रामकीर्त्तनासक्तः ।
इष्टं करोति भक्तिः सुदृढा सर्वज्ञभावगोचरनिरता || १६३ ।। भवशतसहस्रसंचितमसौ हि दुरितं तृणेढि जिनवरभक्त्या । व्यसनार्णवमुत्तीर्य प्राप्नोत्यर्हत्पदं सुभावः क्षिप्रम् || १६४ ।। एतत्तत्सुसमाहितं सुनिपुणं दिव्यं पवित्राक्षरं । नानाजन्मसहस्रसंचितघनक्लेशौघनिर्णाशनम् ॥ आख्यानैर्विविधैश्चितं सुपुरुषव्यापार संकीर्त्तनं ।
For Private & Personal Use Only
www.jainelibrary.org