________________
पद्मपुराणम् |
४४३
भव्यांभोज पर प्रहर्षजननं संकीर्त्तितं भक्तितः ।। १६५ । निर्दिष्टं सकलैर्नतेन भुवनैः श्रीवर्द्धमानेन यत् ।
तवं वासवभूतिना निगदितं जंबो : प्रशिष्यस्य च ॥ शिष्येणोत्तरवाग्मिना प्रकटितं पद्मस्य वृत्तं मुनेः । श्रेयः साधुसमाधिवृद्धिकरणं सर्वोत्तमं मंगलम् ॥ १६६ ॥ ज्ञाताशेषकृतान्तसन्मुनिमनः सोपानपर्वावली ।
पारंपर्यसमाधितं सुवचनं सारार्थमत्यद्भुतम् ।। आसीदिन्द्र गुरोर्दिवाकरयतिः शिष्योऽस्य चान्मुनिस्तस्माल्लक्ष्मणसेन सन्मुनिरदः शिष्यो रविस्तु स्मृतम् ॥ १६७ ॥ सम्यग्दर्शनशुद्धिकारणगुरुश्रेयस्करं पुष्कलं ।
विस्पष्टं परमं पुराणममलं श्रीमत्प्रबोधिप्रदम् ॥ रामस्याद्भुतविक्रमस्य सुकृतो माहात्म्यसंकीर्त्तनं । श्रोतव्यं सततं विचक्षणजनैरात्मोपकारार्थिभिः ॥ १६८ ॥
Jain Education International
त्रयोविंशोत्तरशतं पर्व |
For Private & Personal Use Only
www.jainelibrary.org