________________
पद्मपुराणम् ।
४४४
Jain Education International
हलचक्रभृतोर्द्विषोऽनयोश्च प्रथितं वृत्तमिदं समस्तलोके । कुशलं कलुषं च तत्र बुद्धया शिवमात्मीकुरुतेऽशिवं विहाय ॥ १६९ ॥ अपि नाम शिवं गुणानुबंधि व्यसनस्फीतिकरं शिवेतरम् ।
तद्विषयस्पृहया तदेति मैत्रीमशिवं तेन न शान्तये कदाचित् ।। १७० ।। यदि तावदसौ नरेन्द्रो व्यसनं प्राप परांगनाहिताशः ।
त्रयोविंशोत्तरशतं पर्व |
निधनं गतवाननंगरागः किमुतान्यो रतिरंगनासुभाव: ( ? ) ॥ १७१ ॥ सततं सुखसेवितोऽप्यसौ य - दशवक्त्रोवरकामिनीसहस्रैः ।
अवितृप्तमतिर्विनाशमागादितरस्तृप्तिमुपेष्यतीति मोहः ॥ १७२ ॥ स्वलत्रसुखं हितं रहित्वा परकान्ताभिरतिं करोति पापः ।
व्यसनार्णवमत्युदारमेषः प्रविशत्येव विशुष्कदारुकल्पः ।। १७३ ।। व्रजत त्वरिता जना भवतो बलदेवप्रमुखाः पदं गता यत्र । जिनशासनभक्तिरागरक्ताः सुदृढं प्राप्य यथा बलं सुवृत्तम् || १७४ ॥ सुकृतस्य फलेन जंतुरुच्चैः पदमाप्नोति सुसंपदां निधानम् ।
For Private & Personal Use Only
www.jainelibrary.org