________________
पद्मपुराणम् ।
Jain Education International
४४५
त्रयोविंशोत्तरशतं पर्व |
दुरितस्य फलेन तत्तु दुःखं कुगतिस्थं समुपैत्ययं स्वभावः ।। १७५ ।। कुकृतं प्रथमं सुदीर्घरोषः परपीडाभिरतिर्वचश्च रूक्षम् |
सुकृतं विनयः श्रुतं च शीलं सदयं वाक्यममत्सरः शमश्च ॥ १७६ ॥ न हि कश्चिदो ददाति किंचिद्रविणारोग्यसुखादिकं जनानाम् ।
अपि नाम यदा सुरा ददन्ते बहवः किन्तु विदुःखितास्तदेते || १७७ ॥ बहुधा गदितेन किन्त्वनेन पदमेकं सुबुधा निबुध्य यत्नात् ।
बहुभेदविपाक कर्मसूक्तं तदुपायाप्तिविधौ सदा रमध्वम् ।। १७८ ।। उपायाः परमार्थस्य कथितास्तत्त्वतो बुधाः ।
सेव्यतां शक्तितो येन निष्क्रामत भवार्णवात् ।। १७९ ।। इति जीवविशुद्धिदानदक्षं परितः शास्त्रमिदं नितान्तरम्यम् । सकले भुवने रविप्रकाशं स्थितमुद्योतित सर्ववस्तुसिद्धम् || १८० ॥ द्विशताभ्यधिके समासहस्रे समतीतेर्द्धचतुर्थवर्षयुक्ते । जिनभास्करवर्द्धमानसिद्धे चरितं पद्ममुनेरिदं निबद्धम् ॥ १८१ ॥
For Private & Personal Use Only
www.jainelibrary.org