Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 437
________________ पद्मपुराणम् । ४२८ पूजा महिमानमरं कृत्वा स्तुत्वा प्रणम्य भक्त्या परया । प्रविहरति श्रमणो जग्मुर्देवा यथाक्रमं प्रमदयुताः ॥ ७६ ॥ इति पद्मपुराणे श्रीरविषेणाचार्यप्रोक्ते पद्मस्य केवलोत्पत्त्यभिधानं नाम द्वाविंशोत्तरशतं पर्व ॥ १२२ ॥ Jain Education International त्रयोद्विंशोत्तरशतं पर्व । अथ त्रयोविंशोत्तरशतं पर्व | अथ संस्मृत्य सीतेन्द्रो लक्ष्मीधरगुणार्णवम् | प्रतिबोधयितुं वांछन् प्रतस्थे शर्कराप्रभाम् ॥ १ ॥ मानुषोत्तरमुल्लंघ्य गिरिं मर्त्यसुदुर्गमम् । रत्नप्रभामतिक्रम्य वालुकां चापि मेदिनीम् ॥ २ ॥ प्राप्तो ददर्श बीभत्सां कृच्छ्रातिशयदुःसहाम् । पापकर्मसमुद्भूतामवस्थां नरकश्रिताम् ॥ ३ ॥ असुरत्वं गतो योऽसौ शंबूको लक्ष्मणाहतः । व्याधदारकवत्सोऽत्र हिंसाक्रीडनमाश्रितः ॥ ४ ॥ आतृणेद् कांश्चिदुद्वाध्य कांश्चिद्भृत्यैरघातयत् । नारकानावृतान् कांश्चित्परस्परमयुयुधत् ॥ ५ ॥ केचिद्वधाग्निकुंडेषु क्षिप्यन्ते विकृतस्वराः । शाल्मलीषु नियुज्यन्ते केचित्प्रत्यंगकंटकम् || ६ || ताड्यन्तेऽयोमयैः केचिन्म्रुसलैरभितः स्थितैः । स्वमांसरुधिरं केचित्खाद्यन्ते निर्दयैः सुरैः ॥ ७ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456