Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 426
________________ पद्मपुराणम् । ४१७ विंशोत्तरशतं पर्व । अमत्रमानय क्षिप्रं स्थालमालोकय द्रुतम् । जांबूनदमयीं पात्रीमवलंबितमाहर ॥ २१ ॥ क्षीरमानीयतामिक्षुः सन्निधीक्रियतां दधि । राजते भाजने भव्ये लघु स्थापय पायसम् ।। २२ ।। शर्करां कर्करां कर्कामरं कुरु करंडके । कर्पूरपूरितां क्षिप्रं पूरकापटलं नय ॥ २३ ॥ रसालां कलशे सारां तरसा विधिवद्धिते । मोदकां परमोदारां प्रमोदादेहि दक्षिणे ॥ २४ ॥ एवमादिभिरालापैराकुलैः कुलयोषिताम् । पुरुषाणां च तन्मध्ये पुरमासीत्तदात्मकम् ॥ २५ ॥ अतिपात्यपि नो कार्य मन्यते, नार्मका अपि-आलोक्यंते तदा तत्र सुमहासंभ्रमैजनैः ॥ २६ ॥ वेगिभिः पुरुषैः कैश्चिदागच्छद्भिः सुसंकटे । पात्यन्ते विशिखामार्गे जना भाजनपाणयः॥२७॥ एवमत्युनतस्वान्तं कृतसंभ्रान्तचेष्टितम् । उन्मत्तमिव संवृत्तं नगरं तत्समंततः ॥ २८ ॥ कोलाहलेन लोकस्य यतस्तेन च तेजसा । आलानविपुलस्तंभान् बभंजुः कुंजरा अपि ॥ २९ ॥ तेषां कपोलपालीषु पालिता विपुलाश्चिरम् । प्लावयन्तः पयःपूरा गंडश्रोत्रविनिर्गताः ॥ ३० ॥ उत्कर्णनेत्रमध्यस्थतारकाः कवलत्यजः । उद्ग्रीवा वाजिनस्तस्थुः कृतगंभीरहेषिताः ॥ ३१ ॥ आकुलाध्यक्षलोकेन कृतातुरा गताः परे । चक्रुरत्याकुलं लोकं त्रस्तास्त्रुटितबंधनाः ॥३२॥ एवंविधो जनो यावदभवद्दानतत्परः । परस्परमहाक्षोभपरिपूरणचंचलः ॥ ३३ ॥ ३-२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456