________________
पद्मपुराणम् ।
४१७
विंशोत्तरशतं पर्व ।
अमत्रमानय क्षिप्रं स्थालमालोकय द्रुतम् । जांबूनदमयीं पात्रीमवलंबितमाहर ॥ २१ ॥ क्षीरमानीयतामिक्षुः सन्निधीक्रियतां दधि । राजते भाजने भव्ये लघु स्थापय पायसम् ।। २२ ।। शर्करां कर्करां कर्कामरं कुरु करंडके । कर्पूरपूरितां क्षिप्रं पूरकापटलं नय ॥ २३ ॥ रसालां कलशे सारां तरसा विधिवद्धिते । मोदकां परमोदारां प्रमोदादेहि दक्षिणे ॥ २४ ॥ एवमादिभिरालापैराकुलैः कुलयोषिताम् । पुरुषाणां च तन्मध्ये पुरमासीत्तदात्मकम् ॥ २५ ॥ अतिपात्यपि नो कार्य मन्यते, नार्मका अपि-आलोक्यंते तदा तत्र सुमहासंभ्रमैजनैः ॥ २६ ॥ वेगिभिः पुरुषैः कैश्चिदागच्छद्भिः सुसंकटे । पात्यन्ते विशिखामार्गे जना भाजनपाणयः॥२७॥ एवमत्युनतस्वान्तं कृतसंभ्रान्तचेष्टितम् । उन्मत्तमिव संवृत्तं नगरं तत्समंततः ॥ २८ ॥ कोलाहलेन लोकस्य यतस्तेन च तेजसा । आलानविपुलस्तंभान् बभंजुः कुंजरा अपि ॥ २९ ॥ तेषां कपोलपालीषु पालिता विपुलाश्चिरम् । प्लावयन्तः पयःपूरा गंडश्रोत्रविनिर्गताः ॥ ३० ॥ उत्कर्णनेत्रमध्यस्थतारकाः कवलत्यजः । उद्ग्रीवा वाजिनस्तस्थुः कृतगंभीरहेषिताः ॥ ३१ ॥ आकुलाध्यक्षलोकेन कृतातुरा गताः परे । चक्रुरत्याकुलं लोकं त्रस्तास्त्रुटितबंधनाः ॥३२॥ एवंविधो जनो यावदभवद्दानतत्परः । परस्परमहाक्षोभपरिपूरणचंचलः ॥ ३३ ॥
३-२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org