________________
पद्मपुराणम् ।
४१८
विंशोत्तरशतं पर्व ।
तावच्छृत्वा घनं घोरं क्षुब्धसागरसम्मितम् । प्रासादान्तर्गतो राजा प्रतिनंदीत्यनंदितः ॥ ३४॥ सहसा क्षोभमापन्नः किमेतदिति सत्त्वरम् । हर्म्यमूर्धानमारुक्षत्परिच्छदसमन्वितः ॥ २५ ॥ ततः प्रधानसाधुं तं वीक्ष्य लोकविशेषकम् । कलंककनिर्मुक्तशशांकधवलच्छविम् ॥३६ ॥ आज्ञापयद्वहुन् वीरान् यथैनं मुनिसत्तमम् । व्यतिपत्य द्रुतं प्रीत्या परिप्रापयतात्र मे ॥ ३७॥ यदाज्ञापयति स्वामीत्युक्त्वा प्रव्रजितास्ततः । राजमानवसिंहास्ते समुत्सारितजन्तवः ॥ ३८ ॥ गत्वा व्यज्ञापयन्नेवं मस्तकन्यस्तपाणयः । मुनिं मधुरवाणीकास्तकान्तिहतचेतसः ॥ ३९ ॥ भगवन्नीक्षितं वस्तु गृहाणेत्यस्मदीश्वरः । विज्ञापयति भक्त्या त्वां सदनं तस्य गम्यताम् ॥४०॥ अपथ्येन विवर्णेन विरसेन रसेन च । पृथग्जनप्रणीतेन किमनेन तवांधसा ।। ४१ ॥ एह्यागच्छ महासाधो प्रसादं कुरु याचितः । अन्नं यथेप्सितं स्वैरमुपभुक्ष्व निराकुलम् ॥४२॥ इत्युक्त्वा दातुमुधुक्ता भिक्षा प्रवरयोषितः । विषण्णचेतसो राजपुरुषैरपसारिताः ॥ ४३ ॥ उपचारप्रकारेण जातं ज्ञात्वान्तरायकम् । राजपोरान्नतः साधुः सर्वतोऽभूत्पराङ्मुखः ॥४४॥ नगर्यास्तत्र निर्याति यतावतियतात्मनि । पूर्वस्मादपि संजातः संक्षोभः परमो जने ॥ ४५ ॥
उत्कंठाकुलहृदयं कृत्वा लोकं समस्तं समुखम् (समस्त सुखसंगः)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org