________________
पद्मपुराणम् ।
एकविंशोत्तरशतं पर्व। गत्वा श्रमणोऽरण्यं गहनं नक्तं समाचचार प्रतिमाम् ॥ ४६॥ दृष्ट्वा तथाविधं तं पुरुषरविं चारुचेष्टितं नयनहरम् ।
जाते पुनर्वियोगे तियश्चोऽप्युत्तमामधृतिमाजग्मुः ॥ ४७ ॥ इति पद्मपुराणे श्रीरविषेणाचार्यप्रोक्ते पुरसंक्षोभाभिधानं नाम विंशोत्तरशतं पर्व ।। १२० ।।
अथैकविंशोत्तरशतं पर्व । अथ द्वादशमादाय द्वितीयं मुनिपुंगवः । सहिष्णुरितरागम्यं चकार समवग्रहम् ॥१॥ अस्मिन्मृगकुलाकीर्णे वने या मम जायते । भिक्षा तामेव गृहामि संनिवेशं विशामिन ।। २॥ इति तत्र समारूढे मुनौ घोरमुपग्रहे । दुष्टाश्वेन हृतो राजा प्रतिनंदी प्रसूतिना ॥३॥ अन्विष्यन्ती जनौघेभ्यो हृतिमार्ग समाकुला । स्थूीपृष्टसमारूढा महिषी प्रभवाहया ॥ ४ ॥ किं भवेदिति भूयिष्ठं चिन्तयन्ती त्वरावती । प्रातिष्ठतानुमार्गेण भटचक्रसमन्विता ॥५॥ हियमाणस्य भूपस्य सरः संवृत्तमन्तरे । तत्र पंके ययुमंगः कलत्र इव गेहिका ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org