________________
४२०
पद्मपुराणम् ।
एकविंशोत्तरशतं पर्व । ततः प्राप्ता वरारोहा वीक्ष्य पद्मादिमत्सरः। किंचित्स्मिताननाऽवोचत्साध्वेवाश्वो नृपाविधत् ॥७॥ अपाहरिष्यथा नो चेददृक्ष्यत ततः कुतः । सरो नंदनपुण्याक्षमभिकांक्षितदर्शनम् ॥ ८॥ सफलोद्यानयात्राऽथो याता यत्सुमनोहरम् । वनान्तरमिदं दृष्टमासेचनकदर्शनम् ॥९॥ इति नर्मपरं कृत्वा जल्पितं प्रियसंगता । सखीजनावृता तस्थौ सरसस्तस्य रोधिता ॥ १० ॥ प्रक्रीड्य विमले तोये विधाय कुसुमोच्चयम् । परस्परमलंकृत्य दंपती भोजने स्थितौ ॥ ११ ॥ एतस्मिन्नन्तरे साधुरुपवासविधिं गतः । तयोः सन्निधिमासीदत्क्रियामार्गविशारदः ॥ १२ ॥ तं समीक्ष्य समुद्भूतप्रमदः पुलकान्वितः । अभ्युत्तस्थौ सपत्नीको राजा परमसंभ्रमः ॥ १३ ॥ प्रणम्य स्थीयतामत्र भगवन्निति शब्दवान् । संशोध्य भूतलं चक्रे कमलादिभिरर्चितम् ॥ १४ ॥ सुगंधिजलसंपूर्ण पात्रमुत्य भामिनी । देवी वारि ददौ राजा पादावक्षालयन्मुनेः ॥ १५ ॥ शुचिचामोदसर्वाङ्गस्ततो राजा महादरः । क्षैरेयादिकमाहारं सद्धरसदर्शनम् ॥ १६ ॥ हेमपात्रगतं कृत्वा श्रद्धया परयान्वितः । श्राद्धं स्म परिवेवेष्टि पात्रे परममुत्तमे ॥ १७ ॥ ततोऽनं दीयमानं तवृद्धिमत्यभिभाजनम् । सुदानकारणादाई मनोरथगुणोपमम् ॥ १८ ।। तुष्टयादिभिगुणैर्युक्तं ज्ञात्वा दातारमुत्तमम् । प्रहृष्टमनसो देवा विहायस्यभ्यनंदयन् ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org