________________
पद्मपुराणम् ।
४१६
विंशोत्तरशतं पर्व । अयं कोऽपि महोक्षे ( हाख्ये ) ति आयातीह सुसुंदरः । प्रलंबदोयुगः श्रीमानपूर्वनरमंदरः ॥८॥ अहो धर्यमहो सत्त्वमहो रूपमहो द्युतिः । अहो कान्तिरहो शान्तिरहो मुक्तिरहो गतिः ॥९॥ कोऽयमीहक्कुतः कस्मिन् समभ्येति मनोहरः । युगान्तस्थिरन्यस्तशान्तदृष्टिः समाहितः ॥१०॥ उदारपुण्यमेतेन कतरन्मंडितं कुलम् । कुर्यादनुग्रहं कस्य गृह्णाणोऽन्नं सुकर्मणः ॥ ११ ॥ सुरेन्द्रसदृशं रूपं कुतोऽत्र भुवने परम् । अक्षोभ्यसत्त्वशैलोऽयं रामः पुरुषसत्तमः ॥ १२ ॥ एतैत चेतसो दृष्टेर्जन्मनः कर्मणो मते । कुरुध्वं चरितार्थत्वं देहस्य चरितस्य च ॥ १३ ॥ इतिदर्शनसक्तानां पौराणां पुरुविस्मयः । समाकुलः समुत्तस्थौ रमणीयः परं ध्वनिः ॥ १४ ॥ प्रविष्टे नगरी रामे यथासमयचेष्टितैः । नारीपुरुषसंघातै रथ्याः मार्गाः प्रपूरिताः ॥ १५ ॥ विचित्रमक्ष्यसंपूर्णपात्रहस्ताः समुत्सुकाः । प्रवराः प्रमदास्तस्थुः गृहीतकरकांभसः ॥ १६ ॥ दृढं परिकर बड़ा मनोज्ञजलपूरितम् । आदाय कलशं पूर्णमाजग्मुबहवो नराः ॥ १७॥ इतः स्वामिन्नितः स्वामिन् स्थीयतामिह सन्मुने । प्रासादाद्भूयतामत्र विचेरुरिति सद्गिरः १८ अमाति हृदये हर्षे हृष्टदेहरुहोऽपरे । उत्कृष्टत्वोडितास्फोटसिंहनादानजीवनन् । १९ ।। मुनीन्द्र जय वर्द्धस्व नन्द पुन्यमहीधर । एवं च पुनरुक्ताभिर्वाग्भिरापूरितं नमः ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org