________________
पद्मपुराणम् ।
विंशोत्तरशतं पर्व।
श्रुत्वा बलदेवस्य त्यक्त्वा भोगं परं विमुक्तिग्रहणम् ।
भवत भवभावशिथिला व्यसनरवेस्तापमाप्नुत न पुनर्यत्नात् ॥ ६२ ॥ इति श्रीपद्मपुराणे श्रीरविषेणाऽऽचार्यप्रणीते बलदेवनिष्क्रमणाभिधानं नाम एकोनविंशोत्तरशतं पर्व ११९
अथ विंशोत्तरशतं पर्व । एवमादीन् गुणान् राजन् बलदेवस्य योगिनः । धरणोऽप्यक्षमो वक्तुं जिह्वाकोटिविकारगः ॥१॥ उपोष्य द्वादशं सोऽथ धीरो विधिसमन्वितः । नंदस्थली पुरीं भेजे पारणार्थ महातपाः ॥२॥ तरुणं तरणिर्दीप्तथा द्वितीयमिव भूधरम् । अन्यं दाक्षायणीनाथमगम्यमिव भास्वतः ॥३॥ वीधस्फटिकसंशुद्धहृदयं पुरुषोत्तमम् । मूत्यैव संगतं धर्ममनुरागं त्रिलोकगम् ॥४॥ आनंदमिव सर्वेषां गत्त्वैकत्त्वमिव स्थितम् । महाकांतिप्रवाहेण प्लावयन्तमिव क्षितिम् ॥ ५ ॥ धवलांभोजखंडानां पूरयन्तमिवांवरम् । तं वीक्ष्य नगरीलोकः समस्तः क्षोभमागतः ॥ ६॥ अहो चित्रमहो चित्रं भो भो पश्यत पश्यत । अदृष्टपरमीदृक्षमाकारं भुवनातिगम् ॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org