Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 425
________________ पद्मपुराणम् । ४१६ विंशोत्तरशतं पर्व । अयं कोऽपि महोक्षे ( हाख्ये ) ति आयातीह सुसुंदरः । प्रलंबदोयुगः श्रीमानपूर्वनरमंदरः ॥८॥ अहो धर्यमहो सत्त्वमहो रूपमहो द्युतिः । अहो कान्तिरहो शान्तिरहो मुक्तिरहो गतिः ॥९॥ कोऽयमीहक्कुतः कस्मिन् समभ्येति मनोहरः । युगान्तस्थिरन्यस्तशान्तदृष्टिः समाहितः ॥१०॥ उदारपुण्यमेतेन कतरन्मंडितं कुलम् । कुर्यादनुग्रहं कस्य गृह्णाणोऽन्नं सुकर्मणः ॥ ११ ॥ सुरेन्द्रसदृशं रूपं कुतोऽत्र भुवने परम् । अक्षोभ्यसत्त्वशैलोऽयं रामः पुरुषसत्तमः ॥ १२ ॥ एतैत चेतसो दृष्टेर्जन्मनः कर्मणो मते । कुरुध्वं चरितार्थत्वं देहस्य चरितस्य च ॥ १३ ॥ इतिदर्शनसक्तानां पौराणां पुरुविस्मयः । समाकुलः समुत्तस्थौ रमणीयः परं ध्वनिः ॥ १४ ॥ प्रविष्टे नगरी रामे यथासमयचेष्टितैः । नारीपुरुषसंघातै रथ्याः मार्गाः प्रपूरिताः ॥ १५ ॥ विचित्रमक्ष्यसंपूर्णपात्रहस्ताः समुत्सुकाः । प्रवराः प्रमदास्तस्थुः गृहीतकरकांभसः ॥ १६ ॥ दृढं परिकर बड़ा मनोज्ञजलपूरितम् । आदाय कलशं पूर्णमाजग्मुबहवो नराः ॥ १७॥ इतः स्वामिन्नितः स्वामिन् स्थीयतामिह सन्मुने । प्रासादाद्भूयतामत्र विचेरुरिति सद्गिरः १८ अमाति हृदये हर्षे हृष्टदेहरुहोऽपरे । उत्कृष्टत्वोडितास्फोटसिंहनादानजीवनन् । १९ ।। मुनीन्द्र जय वर्द्धस्व नन्द पुन्यमहीधर । एवं च पुनरुक्ताभिर्वाग्भिरापूरितं नमः ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456