Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 430
________________ पद्मपुराणम्। ४२१ एकविंशोत्तरशतं पर्व। अनुकूलो ववौ वायुः पंचवर्णी सुसौरभाम् । पुष्पवृष्टिममुंचन्त प्रमथाः प्रमदान्विताः ॥ २०॥ चित्रश्रोत्रहरो जज्ञे पुष्करे दुंदुभिस्वनः । अप्सरोगणसंगीतप्रवरध्वनिसंगतः ॥२१॥ तुष्टाः कन्दर्पिणो देवाः कृतानेकविधस्वनाः । चकार बहुलं व्योनि ननृतुश्च समाकुलम् ॥ २२ ॥ अहो दानमहो दानमहो पात्रमहो विधिः । अहो देयमहो दाता साधु साधु परं कृतम् ॥ २३ ।। वद्धेस्व जय नंदेतिप्रभृतिः परमाकुलः । विहायोमंडपव्यापी निःस्वनस्पैदशोऽभवत् ॥ २४ ॥ नानारत्नसुवर्णादिपरमद्रविणात्मिका । पपात वसुधारा च द्योतयन्ती दिशो दश ॥ २५ ॥ पूजामवाप्य देवेभ्यो मुनेर्देशवतानि च । विशुद्धदर्शनो राजा पृथिव्यामाप गौरवम् ॥ २६ ॥ एवं सुदानं (नी) विनयो (यी) सुपात्रे भक्तिप्रणम्रो नपतिः स्मजानिः ? (सराज्ञिः) वहन्नितान्तं परमं प्रमोदं मनुष्यजन्माऽऽप्तफलं विवेद ॥ २७ ॥ रामोऽपि कृत्वा समयोदितार्थ विविक्तशय्यासनमध्यवर्ती । तपोऽतिदीप्तो विजहार युक्तं महीं रविः प्राप्त इव द्वितीयः ॥ २८ ॥ इति श्रीपद्मपुराणे श्रीरविषेणाचार्यप्रोक्ते दानप्रसंगाभिधानं नामैकविंशोत्तरशतं पर्व ।। १२१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456