Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 423
________________ ४१४ पद्मपुराणम् । एकोनविंशोत्तरशतं पर्व । देवयोस्तत्र नो द्वेषः सर्वाकारेण विद्यते । तथा हि प्राप्तकालोऽयं भ्रातृमृत्य्वपदेशतः ।। ५१ ॥ अनेकं मम तस्यापि विविधं जन्म तद्गतम् । वसुदत्तादिकं मोहपरायत्तितचेतसः ॥५२॥ एवं सर्वमतिक्रान्तमज्ञासीत्पद्मसंयतः । धैर्यमत्युत्तमं विभ्रव्रतशीलधराधरः ॥ ५३॥ परया लेश्यया युक्तो गंभीरो गुणसागरः । बभूव स महाचेताः सिद्धिलक्ष्मीपरायणः ॥५४ ।।. युष्मानपि वदाम्यस्मिन् सर्वानिह समागतान् । रमध्वं तत्र सन्मार्गे रतो यत्र रघूत्तमः ।।५५ ॥ जैने शक्त्या च भक्त्या च शासने संगतत्पराः । जना विभ्रति लभ्यार्थं जन्म मुक्तिपदान्तिकम् ।। जिनाक्षरमहारत्ननिधानं प्राप्य भो जनाः । कुलिंगसमयं सर्व परित्यजत दुःखदम् ॥ ५७ ॥ कुग्रन्थैर्मोहितात्मानः सदंभकलुषक्रियाः । जात्यंधा इव गच्छन्ति त्यक्त्वा कल्याणमन्यतः ५८ नानोपकरणं दृष्ट्वा साधनं शक्तिवर्जिताः। निर्दोषमिति भाषित्वा गृह्णते मुखराः परे ॥ ५९ ॥ व्यर्थमेव कुलिंगास्ते मूढेरन्यैः पुरस्कृताः । प्रखिन्नतनवो भारं वहन्ति मृतका इव ॥ ६० ॥ ऋषयस्ते खलु येषां परिग्रहे नास्ति याचने वा बुद्धिः। तस्मात्ते निग्रेन्थाः साधुगुणेरन्विता बुधैः संसेव्याः ॥ ६१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456