Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 415
________________ पद्मपुराणम् । ४०६ अष्टादशोत्तरशतं पर्व । ऊचतुस्तौ क्रमेणैतं पृच्छावश्वापि सत्यतः । जीवेन रहितामेतां तनुं वहसि किं वृथा || ८१ ॥ लक्ष्मणांगं ततो दोर्भ्यामालिङ्गय वरलक्षणम् । इदं जगाद भूदेवः कलुषीभूतमानसः ।। ८२ ॥ भो भो कुत्सयते कस्मात्सौमित्रिं पुरुषोत्ततम् | अमंगलाभिधानस्य किं ते दोषो न विद्यते ॥ ८३ ॥ कृतान्तेन समं यावद्विवादोऽस्येति वर्त्तते । जटायुस्तावदायातो वहन्नर कलेवरम् ॥ ८४ ॥ तं दृष्ट्राऽभिमुखं रामो बभाषे केन हेतुना । कलेवरमिदं स्कन्धे वहसे मोहसंगतः ।। ८५ ।। नोक्तमनुयुक्षे मां कस्मान्न स्वं विचक्षणः । यतः प्राणनिमेषादिमुक्तं वहसि विग्रहम् ॥ ८६ ॥ बाला मात्रकं दोषं परस्य क्षिप्रमीक्षसे । मेरुकूटप्रमाणान् स्वान् कथं दोषान्न पश्यसि ॥ ८७ ॥ भवन्तमस्माकं परमा प्रीतिरुद्वता । सदृशः सदृशेष्वेव रज्यन्तीति सुभाषितम् ॥ ८८ ॥ सर्वेषामस्मदादीनां यथेप्सितविधायिनाम् । भवान् पूर्वं पिशाचानां त्वं राजा परमेप्सितः ||८९ || उन्मत्तेन्द्रध्वजं दत्त्वा भ्रमामः सकलां महीम् | उन्मत्तां प्रवणीकुर्मः समस्तां प्रत्यवस्थिताम् ९० एवमुक्तमनुश्रित्य मोहे शिथिलतां गते । गुरुवाक्यभवं चाऽन्यत् स्मृत्वा श्रीमानभून्नृपः ॥ ९१ ॥ मुक्तमोहघनवातः प्रतिबोधमरीचिभिः । नृपदाक्षायणी भर्त्ता राजते परमं तदा ।। ९२ ॥ धनपंकविनिर्मुक्तमिव शारदमंबरम् । विमलं तस्य संजातं मानसं सत्त्वसंगतम् ॥ ९३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456