Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 418
________________ पद्मपुराणम् । ४०९ अष्टादशोत्तरशतं पर्व । विलोक्य वैवुधीमृद्धिं भूतभोगचरा जना | परमं विस्मयं प्राप्ता बभूवुर्विमलाशयाः ॥ १२० ॥ रामो जगाद सेनान्यमप्रमेयं सुरेशिनाम् । उदसीसरतां भद्रौ प्रत्यनीकस्थितात्मनाम् ॥ १२१ ॥ तौ युवामागतौ नाकान्मां प्रबोधयितुं सुरौ । महाप्रभावसंपन्नावत्यन्तशुद्धमानसौ ॥ १२२ ॥ इति संभाष्य तौ रामो निष्क्रान्तः शोकसंकटात् । सरयूरोधसंवृत्या लक्ष्मणं समिधीकरत् ॥१२३॥ परं बिबुद्धभावश्च विषादपरिवर्जितः । जगाद धर्ममर्यादापालनार्थमिदं वचः ॥ १२४ ॥ शत्रुघ्न राज्यं कुरु मत्र्यलोके तपोवनं संप्रविशाम्यहन्तु । सर्वस्पृहादूरितमानसात्मा पदं समाराधयितुं जिनानाम् ॥ १२५ ॥ रागादहं नो खलु भोगलुब्धः मनस्तु निःसंगसमाधिराज्ये । ___समाश्रयिष्यामि तदेव देव त्वया समं नास्ति गतिममान्या ॥ १२६ ॥ कामोपभोगेषु मनोहरेषु सुहृत्सु संबंधिषु बांधवेषु । वस्तुष्वभीष्टेषु च जीवितेषु कस्यास्ति तृप्तिनवे भवेऽस्मिन् ॥ १२७ ।। इति पद्मपुराणे श्रीरविषेणाचार्यप्रणीते लक्ष्मणसंस्कारकरणं कल्याणमित्रदेवाभि गमाभिधानं नामाष्टादशोत्तरशतं पर्व ॥ ११८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456