Book Title: Padmacharitam Part 03
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 420
________________ पद्मपुराणम् । ४११ एकोनविंशोत्तरशतं पर्व | अवबुध्य विबंधात्मा- किल व्योमचरो मुनिः । सुव्रतो भगवान्प्राय मुनिसुव्रतवंशभृत् ॥ १२ ॥ इति श्रुत्वा महामोदप्रजातपुलकोद्गमः । विस्तारिलोचनः श्रीमान् संप्रतस्थेऽतिकं यतेः ॥ १३ ॥ भूखेचरमहाराजैः सेव्यमानो महोदयः । विजयः स्वर्णकुंभं वा सुभक्तिसुतमागमत् ॥ १४ ॥ गुणप्रवरनिर्ग्रन्थसहस्रकृतपूजनम् । प्रणनामोपसृत्यैव शिरसा रचितांजलिः ।। १५ ।। दृष्ट्वा स तं महात्मानं मुक्तिकारणमुत्तमम् । जज्ञे निमग्नमात्मानममृतस्येव सागरे ॥ १६ ॥ अविधं महिमानं च परं श्रद्धातिपूरितः । पूर्वं यथा महापद्मः सुव्रतस्येव योगिनः ॥ १७ ॥ सर्वदारार्थितात्मानो विहायश्चरणा अपि । ध्वजतोरणवृत्तार्घ संगीताः विव्यधुः परम् ॥ १८ ॥ त्रियामायामतीयां भास्करेऽभिनिवेदिते । प्रणम्य राघवः साधून् वत्रे निर्ग्रन्थदीक्षणम् ॥ १९ ॥ निर्धूतकल्मषस्त्यक्तरागद्वेषो यथाविधि । प्रसादात्तव योगीन्द्र विहर्तुमहन्मनाः ॥ २० ॥ अवोचत गणाधीशः परमं नृप सांप्रतम् । किमनेन समस्तेन विनाशित्वनिषादिना ? ॥ २१ ॥ सनातननिराबाधपरातिशय सौख्यदम् । मनीषितं परं युक्तं जिनधर्मावगाहितुम् (हनम् ) ||२२|| एवं प्रभाषिते साधौ विरागी भववस्तुनि । दक्षं प्रदक्षिणं चक्रे मुनिर्मेरौ यथा रविः ।। २३ ।। समुत्पन्नमहाबोधिः महासंवेगकँकटः । बद्धकक्षो महाधृत्या कर्माणि क्षपणोद्यतः ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456