________________
पद्मपुराणम् ।
४११
एकोनविंशोत्तरशतं पर्व |
अवबुध्य विबंधात्मा- किल व्योमचरो मुनिः । सुव्रतो भगवान्प्राय मुनिसुव्रतवंशभृत् ॥ १२ ॥ इति श्रुत्वा महामोदप्रजातपुलकोद्गमः । विस्तारिलोचनः श्रीमान् संप्रतस्थेऽतिकं यतेः ॥ १३ ॥ भूखेचरमहाराजैः सेव्यमानो महोदयः । विजयः स्वर्णकुंभं वा सुभक्तिसुतमागमत् ॥ १४ ॥ गुणप्रवरनिर्ग्रन्थसहस्रकृतपूजनम् । प्रणनामोपसृत्यैव शिरसा रचितांजलिः ।। १५ ।। दृष्ट्वा स तं महात्मानं मुक्तिकारणमुत्तमम् । जज्ञे निमग्नमात्मानममृतस्येव सागरे ॥ १६ ॥ अविधं महिमानं च परं श्रद्धातिपूरितः । पूर्वं यथा महापद्मः सुव्रतस्येव योगिनः ॥ १७ ॥ सर्वदारार्थितात्मानो विहायश्चरणा अपि । ध्वजतोरणवृत्तार्घ संगीताः विव्यधुः परम् ॥ १८ ॥ त्रियामायामतीयां भास्करेऽभिनिवेदिते । प्रणम्य राघवः साधून् वत्रे निर्ग्रन्थदीक्षणम् ॥ १९ ॥ निर्धूतकल्मषस्त्यक्तरागद्वेषो यथाविधि । प्रसादात्तव योगीन्द्र विहर्तुमहन्मनाः ॥ २० ॥ अवोचत गणाधीशः परमं नृप सांप्रतम् । किमनेन समस्तेन विनाशित्वनिषादिना ? ॥ २१ ॥ सनातननिराबाधपरातिशय सौख्यदम् । मनीषितं परं युक्तं जिनधर्मावगाहितुम् (हनम् ) ||२२|| एवं प्रभाषिते साधौ विरागी भववस्तुनि । दक्षं प्रदक्षिणं चक्रे मुनिर्मेरौ यथा रविः ।। २३ ।। समुत्पन्नमहाबोधिः महासंवेगकँकटः । बद्धकक्षो महाधृत्या कर्माणि क्षपणोद्यतः ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org