SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४१० एकोनविंशोत्तरशतं पर्व । अथैकोनविंशोत्तरशतं पर्व । तत्तस्य वचनं श्रुत्वा हितमन्यन्तनिश्चितम् । मनसा क्षणमालोच्य सर्वकर्तव्यदक्षिणम् ॥ १॥ विलोक्याऽऽसीनमासनमनंगलवणात्मजम् । क्षितीश्वरपदं तस्मै ददौ स परमार्द्धकम् ॥ २ ॥ अनंगलवणः सोऽपि पितृतुल्यगुणक्रियः। प्रणताऽखिलसामन्तो जातः कुलधुरावहः ॥ ३ ॥ परं प्रतिष्ठितः सोऽयमनुरागप्रतापवान् । धरणीमंडले सर्वे सावर्थं विजयो यथा ॥ ४ ॥ सुभूषणाय पुत्राय लंकाराज्यं विभीषणः । सुग्रीवोऽपि निजं राज्यमंगदांगभवे ददौ ॥ ५ ॥ ततो दाशरथी रामः सविषानमिवेक्षितम् । कलत्रमिव चागस्वि राज्यं भरतवज्जहौ ॥ ६ ॥ एकं निःश्रेयसस्यांगं देवासुरनमस्कृतम् । साधकैर्मुनिभिर्जुष्टं सममानगुणोदितम् ॥ ७ ॥ जन्ममृत्युपरित्रस्तः लथकर्मकलंकभृत् । विधिमार्ग वृणोति स्म मुनिसुव्रतदेशितम् ।। ८ ॥ बोधिं संप्राप्य काकुत्स्थः क्लेशभावनिनिर्गतः । अदीपिष्टाधिकं मेघवजनिःसृतभानुवत् ॥९॥ अथार्हद्दासनामानं श्रेष्ठिनं द्रष्टुमागतम् । कुशलं सर्वसंघस्य पप्रच्छेह सदःस्थितम् ॥ १० ॥ उवाच स महाराज व्यसनेन तवाऽमुना । व्यथनं परमं प्राप्ता यतयोऽपि महीतले ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy