________________
पद्मपुराणम् ।
३९६
सप्तदशोत्तरशतं पर्व। वाष्पविप्लुतनेत्रास्ते संभ्रान्तमनसोऽविशन् । भवनं पद्मनाभस्य भरितांजलयो नताः ॥३॥ विषादिनो विधिं कृत्वा पुरस्तात्ते महीतले । उपविश्य क्षणं स्थित्वा मंदं व्यज्ञापयनिदम् ।। ४ ।। देव यद्यपि दुर्मोचः शोकोऽयं परमाप्तनः । ज्ञातज्ञेयस्तथापि त्वमेनं संत्यक्तुमर्हसि ॥ ५॥ एवमुक्त्वा स्थितेष्वेषु वचः प्रोच विभीषणः । परमार्थस्वभावस्य लोकतत्त्वविचक्षणः ॥ ६ ॥ अनादिनिधना राजन् स्थितिरेषा व्यवस्थिता । अधुना नेयमस्यैव प्रवृत्ता भुवनोदरे ॥ ७ ॥ जातेनाऽवश्यमर्त्तव्यमत्रसंसारपंजरे । प्रतिक्रियाऽस्ति नो मृत्योरुपायैर्विविधैरपि ॥ ८ ॥ अनाय्ये नियतं देहे शोकस्यालंबनं मुधा । उपायैर्हि प्रवर्त्तन्ते स्वार्थस्य कृतबुद्धयः ॥९॥ आक्रन्दितेन नो कश्चित्परलोकगतो गिरम् । प्रयच्छति ततः शोकं न राजन् कर्तुमर्हसि ॥१०॥ नारीपुरुषसंयोगाच्छरीराणि शरीरिणाम् । उत्पद्यन्ते व्ययन्ते च प्राप्तसाम्यानि बुबुदैः ॥११॥ लोकपालसमेतानामिन्द्राणामपि नाकतः । नष्टयोनिजवेदानां प्रच्युतिः पुण्यसंक्षये ॥ १२ ॥ गर्भक्लिष्टे रुजाकीर्णे तृणबिन्दुचलाचले । क्लेदकैकससंघाते काऽऽस्था मर्त्यशरीरके ॥ १३ ॥ अजरामरणंमन्यः किं शोचति जनो मृतम् । मृत्युदंष्ट्रान्तरक्लिष्टमात्मानं किं न शोचति ॥१४॥ यदा निधनमस्येव केवलस्य तदा सति । उच्चैराक्रन्दितुं युक्तं न सामान्ये पराभवे ॥ १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org