SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३९५ सप्तदशोत्तरशतं पर्व। प्राप्तो विनिद्रतामेष सशोकः कमलाकरः । कस्मादभ्युदितत्वं तु निंदितं सेवते भवान् ॥ ३८ ॥ विपरीतमिदं जातु त्वया नैवमनुष्ठितम् । उत्तिष्ठ राजकृत्येषु भवावहितमानसः ॥ ३९ ॥ भ्रातस्त्वयि चिरं सुप्ते जिनवेश्मसु नोचिताः। क्रियन्ते चारुसंगीता भेरीमंगलनिःस्वना ॥४०॥ श्लथप्रभातकर्तव्याः करुणासक्तचेतसः । उद्वेगं परमं प्राप्ता यतयोऽपि त्वयीदृशे ॥४१॥ वीणावेषुमृदंगादिनिस्वानपरिवर्जिता । त्वद्वियोगाकुलीभूता नगरीयं न राजते ॥ ४२ ॥ पूर्वोपचितमशुद्धं नूनं मे कर्म पाकमायातम् । भ्रातृवियोगव्यसनं प्राप्तोऽस्मि यदीदृशं कष्टम् ४३ युद्ध इव शोकभाजश्चैतन्यसमागमानन्दम् । उत्तिष्ठ मानवरवे कुरु सकृदत्यन्तखिन्नस्य ॥४४॥ इति श्रीपद्मपुराणे श्रीरविषेणाचार्यप्रोक्ते रामदेवविप्रलापं नाम षोडशोत्तरशतं पर्व ॥ ११६ ॥ अथ सप्तदशोत्तरशतं पर्व । ततो विदितवृत्तान्ताः सर्वे विद्याधराधिपाः । सह स्त्रीभिः समायातास्त्वरिताः कोशला पुरीम् १ विभीषणः समं पुत्रैश्चन्द्रोदरनृपात्मजः । समेतः परिवर्गेण सुग्रीवः शशिवर्द्धनः ॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy