________________
पद्मपुराणम् ।
३९४
षोडशोत्तरशतं पर्व ।
ब्रूहि त्रूहि किमिष्टं ते सर्व संपादयाम्यहम् । एवं न शोभसे विष्णो सव्यापारं मुखं कुरु ॥२५॥ देवी सीता स्मृता किन्ते समदुःखसहायिनी । परलोकं गता साधी विषण्णासि भवेत्ततः ॥२६॥ विषादं मुंच लक्ष्मीश विरुद्धा खगसंहतिः । अवस्कन्दागता सेयं साकेतामवगाहते ॥ २७ ॥ क्रुद्धास्यापीदृशं वक्त्रं मनोहर न जातुचित् । तवाऽऽसीदधुना वत्स मुंच मुंच विचेष्टितम् ॥२८॥ प्रसीदेष तवानृत्तपूर्व पादौ नमाम्यहम् । ननु ख्यातोऽखिले लोके मम त्वमनुकूलने ॥ २९ ।। असमानप्रकाशस्त्त्वं जगद्दीपः समुन्नतः । चलिताऽकालवातेन प्रायो निर्वापितोऽभवत् ॥ ३० ॥ राजराजत्वमासाद्य नीत्वा लोकं महोत्सवम् । अनाथीकृत्य तं कस्माद्भवितं गमनं तव ॥३१॥ चक्रेण द्विषतां चक्रं जित्वा सकलमूर्जितम् । कथं नु सहसेऽद्य त्वं कालचक्रपराभवम् ॥ ३२ ॥ राजश्रिया तवाराजद्यदिदं सुंदरं वपुः । तदद्यापि तथैवेदं शोभते जीवितोज्झितम् ॥ ३३ ॥ निद्रां राजेन्द्र मुंचस्व समतीता विभावरी । निवेदयति संध्येयं परिप्राप्तं दिवाकरम् ॥ ३४ ॥ सुप्रभातं जिनेन्द्राणां लोकालोकावलोकिनाम् । अन्येषां भव्यपद्मानां शरणं मुनिसुव्रतः ॥ ३५ ॥ प्रभातमपि जानामि ध्वान्तमेतदहं परम् । वदनं यन्नरेन्द्रस्य पश्यामि गतविभ्रमम् ॥ ३६॥ उत्तिष्ठ मा चिरं स्वाप्सीमुंच निद्रां विचक्षण । आश्रयामः सभास्थानं तिष्ठ सामंतदर्शने ॥ ३७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org