________________
पद्मपुराणम् ।
३९३
षोडशोत्तरशतं पर्व। देव त्वरितमुत्तिष्ठ मम पुत्रौ वनं गतौ । दूरं न गच्छतो यावत्तावत्तावानयामहे ॥ १२ ॥ त्वया विरहिता एताः कृतार्तकुररीरवाः । भवद्गुणग्रहग्रस्ता विलोलंति महीतले ॥ १३ ॥ भ्रष्टहारशिरोरत्नमेखलाकुंडलादिकम् । आक्रन्दन्तं प्रियालोकं वारयस्याकुलं न किम् ॥ १४ ॥ किं करोमि क गच्छामि त्वया विरहितोऽधुना । स्थानं तन्नानुपश्यामि जायते यत्र निर्वृतिः १५ आसेचनकमेतत्ते पश्याम्यद्यापि चक्रकम् । अनुरक्तात्मकं तकि त्यक्तुं समुचितं तव ॥१६॥ मरणव्यसने भ्रातुरपूर्वोऽयं ममांगकम् । दग्धुं शोकानलः शक्तः किं करोमि विपुण्यकः ॥ १७ ॥ न कृशानुर्दहत्येवं नैवं शोषयते विषम् । उपमानविनिर्मुक्तं यथा भ्रातुः परायणम् ॥ १८ ॥ अहो लक्ष्मीधर क्रोधधैर्य संहर सांप्रतम् । वेलाऽतीताऽनगाराणां महर्षीणामियं हि सा ॥१९॥ अयं रविरुपैत्यस्तं वीक्षस्वैतानि सांप्रतम् । पद्मानि त्वत्सनिद्राक्षिसमानि सरसां जले ॥ २० ॥ शय्यां व्यरचयत्क्षिप्रं कृत्वा विष्णुं भुजान्तरे । व्यापारान्तरनिर्मुक्तः स्वप्तुं रामः प्रचक्रमे ॥२१॥ श्रवणे देवसद्भावं ममैकस्य निवेदय । केनासि कारणेनैतामवस्थामीदृशीमितः ॥ २२ ॥ प्रसन्नचंद्रकान्तं ते वक्त्रमासीन्मनोहरम् । अधुना विगतच्छायं कस्मादीगिदं स्थितम् ॥ २३ ॥ मृदुप्रभंजनाऽऽधूतकरपल्लवसन्निभे । आस्तां निरीक्षणे कस्मादधुना म्लानिमागते ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org