________________
पद्मपुराणम् ।
३९२
अथ षोडशोत्तरशतं पर्व ।
कालधर्म परिप्राप्ते राजन् लक्ष्मणपुंगवे । त्यक्तं युगप्रघानेन रामेण व्याकुलं जगत् ॥ १ ॥ स्वरूपं मृदु सद्धं स्वभावेन हरेर्वपुः । जीवेनाऽपि परित्यक्तं न पद्माभस्तदाऽत्यजत् ॥ २ ॥ आलिंगति निधायां के मार्ष्टि जिघ्रति निक्षति । निषीदति समाधाय सस्पृहं भुजपंजरे ॥ ३ ॥ अवाप्नोति न विश्वासं क्षणमप्यस्य मोचने । बालोऽमृतफलं यद्वत्स तं मेने महाप्रियम् ॥ ४ ॥ विललाप च हा भ्रातः किमिदं युक्तमीदृशम् । यत्परित्यज्य मां गन्तुं मतिरेकाकिना कृता ||५|| ननुनाऽहं किमु ज्ञातस्तव त्वद्विरहासहः । यन्मां निक्षिप्य दुःखाशावकस्मादिदमीहसे || ६ || हातात किमिदं क्रूरं परं व्यवसितं त्वया । यदसंवाद्य मे लोकमन्यं दत्तं प्रयाणकम् ॥ ७ ॥ प्रयच्छ सकृदप्याशु वत्स प्रतिवचोऽमृतम् । दोषाद्विनाऽसि किं क्रुद्धो ममापि सुविनीतकः ||८|| कृतवानसि नो जातु मानं मयि मनोहर । अन्य एवाऽसि किं जातो वद वा किं मया कृतम् ||९|| दूरादेवान्यदा दृष्ट्रा दत्त्वाऽभ्युत्थानमाहृतः । रामं सिंहासने कृत्वा महीपृष्ठं निषेचय ॥ १० ॥ अधुना मे सरस्यस्मिन्निन्दुकांतनखावलौ । पादेऽपि लक्ष्मण न्यस्ते ऋषे (रुषो ) मृष्येति नो कथम् ।।
Jain Education International
षोडशोत्तरशतं पर्व |
For Private & Personal Use Only
www.jainelibrary.org