________________
पद्मपुराणम् ।
३९१
पंचदशोत्तरशतं पर्व | पुनर्गर्भाशयाद्भीतौ नत्वा तातक्रमद्वयम् । महेन्द्रोदयमुद्यानं शिविकाऽवस्थितौ गतौ ॥ ५८ ॥ तत्रामृतस्वराभिख्यं शरणीकृत्य संयतम् । बभूवतुर्महाभागौ श्रमणी लवणांकुशौ ।। ५९ ।। गृह्णतोरनयोदीक्षां तदा सत्तमचेतसोः । पृथिव्यामभवद्बुद्धिर्मृत्तिकागोलकाहिता ।। ६० ।। एकतः पुत्रविरहो भ्रातृमृत्य्वशमन्यतः । इति शोकमहावर्त्ते परावर्त्तत राघवः ॥ ६१ ॥ राज्यतः पुत्रतश्चापि स्वभूताज्जीवितादपि । तथाऽपि दयितातोऽस्य परं लक्ष्मीधरः प्रियः ॥ ६२ ॥ कर्मनियोगेनैवं प्राप्तेऽवस्थामशोभनामाप्तजने ।
स ( निः) शोकं वैराग्यं प्रतिपद्यन्ते विचित्रचित्ताः पुरुषाः । ६३ ।। कालं प्राप्य जनानां किंचिच निमित्तमात्रकं परभावम् ।
संबोधरविरुदेति स्वकृतविपाकेऽन्तरङ्गतौ जाते || ६४ ॥
इति श्रीपद्मपुराणे श्रीरविषेणाचार्यप्रोक्ते लवणांकुशतपोऽभिधानं नाम पंचदशोत्तरशतं पर्व ।। ११५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org