________________
पद्मपुराणम् ।
पंचदशोत्तरशतं पर्व |
यदा वैद्यगणैः सर्वैर्मंत्रौषधिविशारदैः । प्रतिशिष्टः कलापारैः परीक्ष्य धरणीधरः || ४५ ॥ तदाहताशतां प्राप्तो रामो मूर्च्छा समागतः । पर्याप्तो वसुधा पृष्ठे छिन्नमूलस्तरुर्यथा ॥ ४६ ॥ हारैश्चंदननीरैश्च तालवृंतानिलैर्निभैः । कृच्छ्रेण त्याजितो मोहं विललाप सुविह्वलः ॥ ४७ ॥ समं शोकविषादाभ्यामसौ पीडनमाश्रितः । उत्ससर्ज यदभ्रूणां प्रवाहं विहिताननम् ॥ ४८ ॥ वाष्पेण विहितं वक्त्रं रामदेवस्य लक्षितम् । विरलांभोद संवीतचन्द्रमंडल संनिभम् ॥ ४९ ॥ अत्यन्तविक्लवीभूतं तमालोक्य तथाविधम् । वितानतां परिप्रापदन्तः पुरमहार्णवः ॥ ५० ॥ दुःखसागरनिर्मग्नाः शुष्यदंगा वरस्त्रियः । भृशं व्यानशिरे वाष्पादाभ्यां रोदसी समम् ॥ ५१ ॥ हा नाथ भुवनानंद सर्वसुंदरजीवित । प्रयच्छ दयितां वाचं कासि यातः किमर्थकम् ।। ५२ ।। अपराधाद्यते कस्मादस्मानेवं विमुंचसि । नन्वाऽऽगः सत्यमध्यास्ते जने तिष्ठसि नो चिरम् ॥५३॥ एतस्मिन्नंतरे श्रुत्वा तद्वस्तु लवणांकुशौ । विषादं परमं प्राप्ताविति चिन्तामुपागतौ ॥ ५४ ॥ धिगसारं मनुष्यत्वं नाऽतोऽस्त्यन्यन्महाधमम् । मृत्युर्यच्छत्यवस्कन्दं यदज्ञातो निमेषतः || ५५॥ यो न निहितुं शक्यः सुरविद्याधरैरपि । नारायणोऽप्यसौ नीतः कालपाशेन पश्यताम् ||५६ ॥ आनाय्येण शरीरेण किमनेन धनेन च । अवधार्येति संबोधं वैदेह जावुपेयतुः ॥ ५७ ॥
Jain Education International
३९०
For Private & Personal Use Only
www.jainelibrary.org