________________
पद्मपुराणम्।
३८९
पंचदशोत्तरशतं पर्व । सुरेन्द्रवनिताचक्रसमचेष्टिततेजसाम् । तदा शोकाभितप्तानां नैतासां चारुताऽभवत् ॥ ३२ ॥ श्रुत्वाऽन्तश्चरवक्त्रेभ्यस्तं वृत्तान्तं तथाविधम् । स संभ्रमं परिप्राप्तः पद्माभः सचिवैवृतः ॥३३॥ अन्तःपुरं प्रविष्टश्च परमाप्तजनावृतः । ससंभ्रमैजनैदृष्टो विक्षिप्तविरलक्रमः ॥३४॥ ततोऽपश्यदतिक्रान्तकान्तद्युतिसमुद्भवम् । वदनं धरणीन्द्रस्य प्रभातशशिपांडुरम् ॥ ३५ ॥ न सुश्लिष्टमिवात्यन्तं परिभ्रष्टं स्वभावतः । तत्कालतरुमूलांबुरुहसाम्यमुपागतम् ॥ ३६॥ अचिंतयच्च किं नाम कारणं येन मे स्वयम् । आस्ते रुष्टो विषादी च किंचिद्विनतमस्तकः ॥३७॥ उपसृत्य च सस्नेहं मुहुराधाय मूर्द्धनि । हिमाऽऽहतनगाकारं पद्मस्तं परिषस्वजे ॥ ३८ ॥ चिह्नानि जीवमुक्तस्य पश्यन्नपि समंततः । अमृतं लक्ष्मणं मेने काकुत्स्थः स्नेहनिर्भरः ॥ ३९ ॥ नतांगयष्टिरावक्रग्रीवादोः परिघौ श्लथौ । प्राणानाकुंचनोन्मेषप्रभृतीहोज्झिता तनुः ॥४०॥ ईदृशं लक्ष्मणं वीक्ष्य विमुक्तं स्वशरीरिणा । उद्वेगोरुभयाक्रान्तः प्रसिष्वेदापराजितः ॥४१॥ अथाऽसौ दीनदीनास्यो मूर्च्छमानो मुहुर्मुहुः । वाष्पाकुलेक्षणोऽपश्यदस्यांगानि समंततः ॥४२॥ न क्षतं नखरेखाया अपि तुल्यमिहेष्यते । अवस्था कीदृशीं केन भवेदयमुपागतः ॥ ४३॥ इति ध्यायन् समुद्भूतवेपथुस्तद्विदं जनम् । आहायमद्विषण्णात्मा तूर्ण विद्वानपि स्वयम् ॥४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org