________________
पद्मपुराणम् ।
३८८
पंचदशोत्तरशतं पर्व । कयाऽकृतज्ञया नाथ मूढयाऽस्यपमानितः । सौभाग्यगर्ववाहिन्या परमं दुर्विदग्धया ॥ १९ ॥ प्रसीद मुच्यता कोपो देव दुःखासिकापि वा । ननु यत्र जने कोपः क्रियतां तत्र यन्मनः ॥२०॥ इत्युक्त्वा काश्चिदालिंग्य परमप्रेमभूमिकाः । निपेतुः पादयो नाचाटुजल्पिततत्पराः ॥ २१ ॥ काश्चिद्वीणां विधायांके तद्गुणग्रामसंगतम् । जगुर्मधुरमत्यन्तं प्रसादनकृताशयाः ॥ २२ ॥ काश्चिदाननमालोक्य कृतप्रियशतोद्यताः । समाभाषयितुं यत्नं सर्वसंदोहतोऽभवत् (?) ॥ २३ ॥ स्तनोपपीडमाश्लिष्य काश्चिद्विमलविभ्रमाः । कान्तस्य कान्तमाजिघ्नन् गंडं कुंडलमंडितम् ॥२४॥ ईषत्पादं समुद्धृत्य काश्चिन्मधुरभापिताः । चक्रुः शिरसि संफुल्लकमलोदरसन्निभम् ॥ २५ ॥ काश्विदर्भकसारंगीलोचनाः कर्तुमुद्यताः । सोन्मादविभ्रमक्षिप्तकटाक्षोत्पलशेखरम् ॥ २६ ॥ जंभज्जूभायताः काश्चित्तदाननकृतेक्षणाः । मंदं बभंजुरंगानि स्वनंत्यखिलसंधिषु ॥ २७॥ एवं विचेष्टमानानां तासामुत्तमयोषिताम् । यत्नोऽनर्थकतः प्राप तत्र चैतन्यवर्जिते ॥ २८ ॥ तानि सप्तदश स्त्रीणां सहस्राणि हरेर्दधुः । मंदमारुतनिधृतचित्रांबुजवनश्रियाम् ॥ २९ ॥ तस्मिन्तथाविधे नाथे स्थिते कृच्छ्रसमागताः । व्याकुले मनसि स्त्रीणां निदधे संशयः पदम् ३० सुदुश्चित्तं च दुर्भाष्यं भावं दुःश्रममेव च । कृत्वा मनसि मुग्धाक्ष्यः पस्पृशुर्मोहसंगताः ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org