________________
पद्मपुराणम् ।
पंचदशोत्तरशतं पर्व।
शोकाकुलं मुखं विष्णोर्जायते कीदृशं तु तत् । कस्मै कुप्यति याति क करोति किमु भाषणम् ॥६॥ कृत्वा प्रधारणामेतां रत्नचूलो दुरीहितः । नामतो मृगचूलश्च विनीता नगरी गतौ ॥ ७ ॥ तत्रत्यं कुरुतां पद्मभवने कंदितध्वनिम् । समस्तान्तः पुरस्त्रीणां दिव्यमायासमुद्भवम् ॥ ८॥ प्रतीहारसुहन्मंत्रिपुरोहितपुरोगमाः । अधोमुखा ययुर्विष्णुं जगुश्च बलपंचताम् ॥९॥ मतो राघव इत्येतद्वाक्यं श्रुत्वा गदायुधः । मंदप्रभंजनाधृतनीलोत्पलनिभेक्षणः ॥१०॥ हा किन्त्विदं समुद्भूतमित्यर्द्धकृतजल्पनः । मनोवितानतां प्राप्तः सहसाऽश्रूनसुंचत ॥ ११ ॥ ताडितोऽशनिनेवाऽसौ कांचनस्तंभसंश्रितः । सिंहासनगतः पुस्तकर्मन्यस्त इव स्थितः ॥ १२ ॥ अनिमीलितनेत्रोऽसौ तथाऽवस्थितविग्रहः । दधार जीवतो रूपं कापि प्रहितचेतसः ॥ १३ ॥ वीक्ष्य निर्गतजीवं तं भ्रातृमृत्यवनलाहतम् । त्रिदशौ व्याकुलीभूतौ जीवितुं दातुमक्षमौ ॥१४॥ नूनमस्येदृशो मृत्युर्विधिनेति कृताशयौ । विषादविस्मयाऽऽपूर्णौ सौधर्ममरुची गतौ ॥१५॥ पश्चात्तापाऽनलज्वालाकर्मापालीढमानसौ । न तत्र तौ धृतिं जातौ संप्राप्तौ निंदितात्मकौ ॥१६॥ अप्रेक्ष्यकारिणां पापमानसानां हतात्मनाम् । अनुष्ठितं स्वयं कर्म जायते तापकारणम् ॥ १७॥ . दिव्यमायाकृतं कर्म तदा ज्ञात्वा तथाविधम् । प्रसादयितुमुटुक्ताः सौमित्रिं प्रवराः स्त्रियः ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org