________________
पद्मपुराणम् ।
३८६
एवमेतदो त्रिदशाः स्थितं देहिनामपरमत्र किमुच्यताम् । कृत्यमत्र भवारिविनाशनं यत्नमेत्य परमं सुचेतसा ॥ ५५ ॥ इति सुरपतिमार्ग तत्त्वमार्गानुरक्तं जिनवरगुणसंगात्यन्तपूतं मनोज्ञम् । रविशशिमरुदाद्याः प्राप्य चेतेोविशुद्धा भवभयमभिजग्मुर्मानवत्वाभिकांक्षाः || ५६ ॥ इति श्रीपद्मचरिते रविषेणाचार्यप्रणीते शक्रसुरसंकथाभिधानं नाम चतुर्दशोत्तरशतं पर्व ॥ ११४॥
Jain Education International
पंचदशोत्तरशतं पर्व |
अथ पंचदशोत्तरशतं पर्व |
1
अथाऽऽसनं विमुंचन्तं शक्रं नत्वा सुरासुराः । यथायथं ययुचित्रं वहन्तो भावमुत्कटम् ॥ १ ॥ कुतुहलता द्वौ तु विधौ कृतनिश्चयौ । पद्मनारायणस्नेह मीहमानौ परीक्षितुम् ॥ २ ॥ क्रीडैकरसिकात्मानावन्योन्यप्रेमसंगतौ । पश्यावः प्रीतिमनयोरित्यागातां प्रधारणाम् ॥ ३ ॥ दिवसं विश्वसत्येकमप्यस्यादर्शनं न यः । मरणे पूर्वजस्यासौ हरिः किन्नु विचेष्टते ॥ ४ ॥ शोकविद्दलितस्यास्य वीक्षमाणौ विचेष्टितम् । परिहासं क्षणं कुर्वे गच्छावः कोशलां पुरीम् ॥५॥
For Private & Personal Use Only
www.jainelibrary.org