________________
पद्मपुराणम् ।
चतुर्दशोत्तरशतं पर्व। महर्धिकस्य देवस्य च्युतस्य स्वर्गतो भवेत् । आहती दुर्लभा बोधिर्देहिनोऽन्यस्य किं पुनः ४३ धन्यः सोऽनुगृहीतश्च मानुषत्वे भवोत्तमे । यः करोत्यात्मानः श्रेयो बोधिमासाद्य नैष्ठिकीम् ४४ तत्रैवात्मगतं प्राह सुरश्रेष्ठो विभावसुः । कदा नु खलु मानुष्यं प्राप्स्यामि स्थितिसंक्षये ॥ ४५ ॥ विषयारिं परित्यज्य स्थापयित्वा वशे मनः । नीत्वा कर्म प्रयास्यामि तपसा गतिमाहतीम् ॥४६॥ तत्रैको विवुधः प्राह स्वर्गस्थस्येदृशी मतिः । अस्माकमपि सर्वेषां नृत्वं प्राप्य विमुह्यति ॥४७॥ यदि प्रत्ययसे नैतत् ब्रह्मलोकात्परिच्युतम् । मानुष्यैश्वर्यसंयुक्तं पद्माभं किं न पश्यसि ॥ ४८ ॥ अत्रोवाच महातेजाः शचीपतिरसौ स्वयम् । सर्वेषां बंधनानां तु स्नेहबंधो महादृढः ॥ ४९ ॥ हस्तपादांगबद्धस्य मोक्षः स्यादसुधारिणः । स्नेहबंधनबद्धस्य कुतो मुक्तिर्विधीयते ॥५०॥ योजनानां सहस्राणि निगडैः पूरितो व्रजेत् । शक्तो नांगुलमप्येकं बद्धः स्नेहेन मानवः ॥५१॥ अस्य लांगलिनो नित्यमनुरक्तो गदायुधः । अतृप्तो दर्शने कृत्यं जीवितेनाऽपि वांछति ॥ ५२ ॥ निमेषमपि नो यस्य विकलं हलिनो मनः । स तं लक्ष्मीधरं त्यक्तुं शक्नोति सुकृतं कथम् ॥५३॥
कर्मणामिदमीदृशमीहितं बुद्धिमानपि यदेति विमूढताम् । __ अन्यथा श्रुतसर्वनिजायतिः कः करोति न हितं सचेतनः ॥ ५४॥ ३-२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org