________________
पद्मपुराणम् ।
३८४
चतुर्दशोत्तरशतं पर्व । इत्यादि यस्य माहात्म्यं स्मृतमाप्यघनाशनम् । पुराणं परमं दिव्यं सम्मदोद्भवकारणम् ॥३०॥ महाकल्याणमूलस्य स्वार्थकांक्षणतत्पराः । तस्य देवाधिदेवस्य भक्ता भवत संततम् ॥ ३१ ॥ अनादिनिधनो जंतुः प्रेर्यमाणः स्वकर्मभिः । दुर्लभ प्राप्य मानुष्यं धिक्कश्चिदपि मुह्यति ॥३२॥ चतुर्गतिमहावर्ते महासंसारमंडले । पुनर्बोधिः कुतस्तेषां ये द्विपन्त्यहदक्षरम् ॥ ३३ ॥ कृच्छ्रान्मानुषमासाद्य यः स्याद्बोधिविवर्जितः । पुनभ्राम्यत्यपुण्यामा सः स्वयंरथचक्रवत् ॥३४॥ अहो धिङ्मानुषे लोके गतानुगतिकैर्जनः । जिनेन्द्रो नादृतः कैश्चित्संसारारिनिषूदनः ॥ ३५ ॥ मिथ्यातपः समाचर्य भूत्वा देवो बलर्द्धिकः । च्युत्वा मनुष्यतां प्राप्य कष्टं द्रुह्यति जीवकः ॥३६॥ कुधर्माशयसक्तोऽसौ महामोहवशीकृतः । न जिनेन्द्र महेन्द्राणामपीन्द्रं प्रतिपद्यन्ते ॥ ३७॥ विषयामिषलुब्धात्मा जन्तुमेनुजतां गतः । मुह्यते मोहनीयन कर्मणा कष्टमुत्तमम् ॥ ३८ ॥ अपि दुर्दृष्टयोगाद्यैः स्वगं प्राप्य कुतापसः । स्वहीनतां परिज्ञाय दह्यते चिंतुयाऽतुरः ॥ ३९ ॥ रत्नद्वीपोपमे रम्ये तदा धिङ्मंदबुद्धिना । मयार्हच्छासने किं नु श्रेयो न कृतमात्मनः ॥ ४० ॥ हा धिक्कुशास्त्रनिवहस्तैश्च वाक्पटुभिः खलैः। पापैर्मानिभिरुन्मार्गे पातितः पतितैः कथम् ॥४१॥ एवं मानुष्यमासाद्य जैनेन्द्रमतमुत्तमम् । दुर्विज्ञेयमधन्यानां जन्तूनां दुःखभागिनाम् ॥ ४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org