________________
पद्मपुराणम् ।
३८३
चतुर्दशोत्तरशतं पर्व | येनैषोऽत्यन्तदुःसाध्यः संसारः परमासुरः । निहतो ज्ञानचक्रेण महारिः सुखसूदनः || १७ ॥ अर्हन्तं तं परं भक्त्या भावपुष्पैरनंतरम् | नाथमर्चयताऽशेषदोषकक्षविभावसुम् || १८ || कषायोग्रतरंगाढचात्कामग्राहसमाकुलात् । यः संसारार्णवाद्भव्यान्समुत्तारयितुं क्षमः ॥ १९ ॥ यस्य प्रजातमात्रस्य मंदरे त्रिदशेश्वराः । अभिषेकं निषेवन्ते परं क्षीरोदवारिणा ॥ २० ॥ अर्चयन्ति च भक्त्याढचास्तदेकाग्रानुवर्त्तिनः । पुरुषार्थाऽऽहितस्वान्ताः परिवर्गसमन्विताः ॥ २१ ॥ वंध्यकैलाशवक्षोजां पारावारोर्मिमेखलाम् । यावत्तस्थौ महीं त्यक्त्वा गृहीत्वा सिद्धियोषिताम् २२ महामोहतमश्छन्नं धर्महीनमपार्थिवम् । येनेदमेत्य नाकाग्रादालोकं प्रापितं जगत् ॥ २३ ॥ अत्यन्ताद्भुतवीर्येण येनाष्टौ कर्मशत्रवः । क्षपिताः क्षणमात्रेण हरिणेवेह दंतिनः ॥ २४ ॥ जिनेन्द्रो भगवानर्हन् स्वयंभूः शंभुरूर्जितः । स्वयंप्रभो महादेवः स्थाणुः कालंजरः शिवः || २५॥ महाहिरण्यगर्भश्व देवदेवो महेश्वरः । सद्धर्मचक्रवर्ती च विस्तीर्थकर कृती || २६ ।। संसारसूदनः सूरिर्ज्ञानचक्षुर्भवांतकः । एवमादिर्यथार्थाख्यो गीयते यो मनीषिभिः ॥ २७ ॥ निगूढः प्रकटः स्वार्थैरभिधानैः सुनिर्मलैः । स्तूयते स मनुष्येन्द्रैः सुरेन्द्रैश्च सुभक्तिभिः ॥२८॥ प्रसादाद्यस्य नाथस्य कर्ममुक्ताः शरीरिणः । त्रैलोक्याग्रेऽवतिष्ठन्ते यथावत्प्रकृतिस्थिताः ॥ २९ ॥
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org