SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ૨૮૨ चतुर्दशोत्तरशतं पर्व । एवं भोगमहत्संगसौख्यसागरसेविनः । आसीत्तस्य जडा बुद्धिः कर्मणा वशमीयुषः ॥ ४ ॥ भुज्यमानाऽल्पसौख्येन संसारपदमीयुषः प्रायो विस्मयते सौख्यं श्रुतमप्यतिसंसृतिः ॥ ५॥ एवं तयोर्महाभोगमग्नयोः प्रेमबद्धयोः । पद्मवैकुंठयोः कालो धर्मकुंठो विवर्त्तते ॥६॥ अथान्यदा समायातः सौधर्मेन्द्रो महाद्युतिः । ऋद्धया परमया युक्तो धैर्यगांभीयसंस्थितः ॥७॥ सेवितः सचिवैः सर्वैर्नानालंकारधारिभिः । कार्तस्वरमहाशैल इव गंडमहीधरैः ॥ ८॥ सुखं तेजः परिच्छन्ने निषण्णः सिंहविष्टरे । सुमेरुशिखरस्थस्य चैत्यस्य श्रियमुद्वहन् ॥ ९ ॥ चंद्रादित्योत्तमोद्योतरत्नालंकृतविग्रहः । मनोहरेण रूपेण जुष्टो नेत्रसमुत्सवः ॥ १० ॥ विभ्राणो विमलं हारं तरंगितमहाप्रभः । प्रवाहमिव सैतोदं श्रीमान्निषधभूधरः ॥ ११ ॥ हारकुंडलकेयूरप्रभृत्युत्तमभूषणैः । समंतादावृतो देवैनक्षत्रैरिव चन्द्रमाः ॥ १२ ॥ चन्द्रनक्षत्रसादृश्यं चारु मानुषगोचरम् । उक्तं यतोऽन्यथाकल्पं ज्यातिषामन्तरं महत् ॥ १३ ॥ महाप्रभावसंपन्नो दिशो दश निजौजसा । भासयन्परमामोदात्तरुजैनेश्वरो यथा ॥ १४ ॥ अशक्यवर्णनो भूरि संवत्सरशतैरपि । अप्यशेषैर्जनैर्जिबासहस्रैरपि सर्वदा ॥ १५ ॥ लोकपालप्रधानानां सुराणां चारुचेतसाम् । यथाऽऽसनं निषण्णानां पुराणमिदमभ्यधात् ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy