________________
पद्मपुराणम् ।
सप्तदशोत्तरशतं पर्व । यदैव हि जनो जातो मृत्युनाधिष्ठतस्तदा । तत्र साधारणे धर्मे ध्रुवे किमिति शोच्यते ॥ १६ ॥ अभीष्टसंगमाकांक्षो मुधा शुष्यति शोकवान । शबरात इवारण्ये चमरः केशलोभतः ॥ १७ ॥ सर्वैरेभिर्यदास्माभिरितो गम्यं वियोगतः । तदा किं क्रियते शोकः प्रथमं तत्र निर्गते ॥ १८ ॥ लोकस्य साहसं पश्य निर्भीस्तिष्ठति यत्पुरः । मृत्योर्व जाग्रदंडस्य सिंहस्येव कुरंगकः ॥ १९ ॥ लोकनाथं विमुच्येकं कश्चिदन्यः श्रुतस्त्वया । पाताले भूतले वा यो न जातो मृत्युनार्दितः ॥२०॥ संसारमंडलापन्नं दह्यमानं सुगंधिना | सदा च विंध्यदावाभं भुवनं किं न वीक्षसे ॥ २१ ॥ पर्यव्य भवकांतारं प्राप्य कामभुजिष्यताम् । मत्तद्विपा इवाऽऽयांति कालपाशस्य वश्यताम् ॥२२॥ धर्ममार्ग समासाद्य गतोऽपि त्रिदशालयम् । अशाश्वततया नद्याः पात्यते तटवृक्षवत् ॥ २३ ॥ सुरमानवनाथानां चयाः शतसहस्रशः । निधनं समुपानीताः कालमेघेन वह्नयः ॥ २४ ॥ दूरमंबरमुल्लंघ्य समापत्य रसातलम् । स्थानं तत्र प्रपश्यामि यत्र मृत्योरगोचरः ॥ २५ ॥ षष्ठकालक्षये सर्व क्षीयते भारतं जगत् । धराधरा विशीयन्ते मर्त्यकाये तु का कथा ॥ २६ ॥ वज्रर्षभवपुबेद्धा अप्यवंध्याः सुरासुरैः । नन्वनित्यतया लब्धा रंभाग पमस्तु किम् ।। २७ ॥ जनन्यापि समाश्लिष्टं मृत्युहेरति देहिनम् । पातालान्तर्गतं यद्वत्काद्रवेयं द्विजोत्तमः ॥ २८ ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org