________________
पद्मपुराणम्।
सप्तदशोत्तरशतं पर्व।
हा भ्रातर्दयिते पुत्रेत्येवं क्रन्दन् सुदु:खिताः । कालाहिना जगद्वयंगो ग्रासतामुपनीयते ॥२९॥ करोम्येतत्करिष्यामि वदत्येवमनिष्टधीः । जनो विशति कालास्यं भीमं पोत इवार्णवम् ॥ ३० ॥ जनं भवान्तरं प्राप्तमनुगच्छेज्जनो यदि । द्विष्टैरिष्टैश्च नो जातु जायेत विरहस्ततः ॥ ३१ ॥ परे स्वजनमानी यः कुरुते स्नेहसम्मतिम् । विशति क्लेशवह्निं स मनुष्यकलभो ध्रुवम् ।। ३२ ।। स्वजनौघाः परिप्राप्ताः संसारे येऽसुधारिणाम् | सिंधुसैकतसंघाता अपि संति न तत्समाः ॥३३।। य एव लालितोऽन्यत्र विविधप्रियकारिणा । स एव रिपुतां प्राप्तो हन्यते तु महारुषा ॥ ३४ ॥ पीतौ पयोधरौ यस्य जीवस्य जननांतरे । त्रस्ताहतस्य तस्यैव खाद्यते मांसमत्र धिक् ॥ ३५ ॥ स्वामीति पूजितः पूर्व यः शिरोनमनादिभिः । स एव दासतां प्राप्तो हन्यते पादताडनैः ॥३६॥ विभोः पश्यत मोहस्य शक्तिर्येन वशीकृतः । जनोऽन्विष्यति संयोग हस्तेनेव महोरगम् ॥३७॥ प्रदेशस्तिलमानोऽपि विष्टपे न स विद्यते । यत्र जीवः परिप्राप्तो न मृत्युं जन्म एव वा ॥ ३८ ॥ ताम्रादिकलिलं पीतं जीवेन नरकेषु यत् । स्वयंभूरमणो तावत् सलिलं न हि विद्यते ॥ ३९ ॥ वराहभवयुक्तेन यो नीहारोऽशनीकृतः । मन्ये विंध्यसहस्रेभ्यो बहुशोऽत्यन्तदूरतः ॥ ४० ॥ परस्परस्वनाशेन कृता या मूर्द्धसंहतिः । ज्योतिषां मार्गमुल्लंघ्य यायात्सा यदि रुध्यते ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org