________________
३९९
पद्मपुराणम् ।
अष्टादशोत्तरशतं पर्व। शर्कराधरणीयातैर्दुःखं प्राप्तमनुत्तमम् । श्रुत्वा तत्कस्य रोचत मोहेन सह मित्रता ॥ ४२ ॥
यस्य कृतेऽपि निमिषं दुःखानि विषयसुखसंसक्तः ।
पर्यटति च संसारे ग्रस्तो मोहग्रहेण मत्तवदात्मा ॥ ४३ ॥ एतद्दग्धशरीरं युक्तं त्यक्तुं कषायचिंतायासम् ।
अन्यस्मादन्यतरं पुनरीदृग्विधं कलेवरभारम् ॥ ४४॥ इत्युक्तोऽपि विविक्तं खेचररविणा विपश्चिता रामः।
नोज्झति लक्ष्मणमृत्तिं गुरोरिवाऽऽज्ञां विनीतात्मा ॥ ४५ ॥ इति श्रीपद्मपुराणे श्रीरविषेणाचार्यप्रोक्ते लक्ष्मणवियोगविभीषणसंसारस्थितिवर्णनं
नाम सप्तदशोत्तरशतं पर्व ॥ ११७ ।।
अथाष्टादशोत्तरशतं पर्व । सुग्रीवाद्यैस्ततो भूपैर्विज्ञप्तं देव सांप्रतम् । चितां कुर्मो नरेन्द्रस्य देहं संस्कारमापय ॥१॥ कलुषात्मा जगादासौ मातृभिः पितृभिः समम् । चितायामाशु दह्यन्तां भवन्तः सपितामहाः॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.