________________
पद्मपुराणम् ।
अष्टादशोत्तरशतं पर्व ।
यः कश्चिद्विद्यते बंधुर्युष्माकं पापचेतसाम् । भवन्त एव तेनामा व्रजन्तु निधनं द्रुतम् ॥ ३॥ उत्तिष्ठोत्तिष्ठ गच्छामः प्रदेशं लक्ष्मणाऽपरम् । शृणुमो नेदृशं यत्र खलानां कटुकं वचः || ४ || एवमुक्त्वा तनुं भ्रातुर्जिघृक्षोरस्य सत्वरम् । पृष्ठस्कंधादि राजानो ददुः संभ्रमवर्त्तिनः ॥ ५ ॥ अविश्वसन् स तेभ्यस्तु स्वयमादाय लक्ष्मणम् । प्रदेशमपरं यातः शिशुर्विषफलं यथा ॥ ६ ॥ जगौ वाष्पपरीताक्षो भ्रातः किं सुप्यते चिरम् । उत्तिष्ठ वर्त्तते वेला स्नानभूमिर्निषेव्यताम् ||७|| इत्युक्त्वा तं मृतं कृत्वा साश्रये स्नानविष्टरे | अभ्यषिचन्महामोहो हेमकुंभांभसा चिरम् ॥ ८ ॥ अलंकृत्य च निःशेषभूषणैर्मुकुटादिभिः । सदाज्ञोऽज्ञापयत् क्षिप्रं भुक्तिभूसत्कृतानिति ॥ ९॥ नानारत्नशरीराणि जांबूनदमयानि च । भाजनानि विधीयतां अन्नं चाऽऽनीयतां परम् ||१०|| समुपायितामच्छा बार्ड कादंबरी वरा । विचित्रसुपदंशं च रसबोधनकारणम् ॥ ११ ॥ एवमाज्ञां समासाद्य परिवर्गेण सादरम् । तथाविधं कृतं सर्व नाथ बुद्धयनुवर्त्तिना ॥ १२ ॥ लक्ष्मणस्यान्तरास्यस्य राघवः पिंडमादधे । न त्वविक्षज्जिनेन्द्रोक्तमभव्यश्रवणे यथा ॥ १३ ॥ ततो दद्यदि क्रोधो मयि देव कृतस्त्वया । ततोऽस्यात्र किमायातममृतस्वादिर्नोधसः ॥ १४ ॥ इयं श्रीधर ते नित्यं दयिता मदिरोत्तमा । इमां तावत्पिव न्यस्तां चषके विकचोत्पले
१५ ॥
Jain Education International
४००
For Private & Personal Use Only
www.jainelibrary.org