________________
पद्मपुराण ।
४०१
अष्टादशोत्तरशतं पर्व । इत्युक्त्वा तां मुखे न्यस्य चकार सुमहादरः । कथं विशतु सा तत्र चार्वी संक्रान्तचेतने ॥१६॥ इत्यशेषं क्रियाजातं जीवतीव सलक्ष्मणे । चकार स्नेहमूढात्मा मोघं निर्वेदवर्जितः ॥१७॥ गीतैः स चारुभिर्वेणुवीणानिस्वनसंगतैः । परासुरपि रामाज्ञां प्राप्तामापच लक्ष्मणः ॥ १८ ॥ चंदनार्चितदेहं तं दोभ्या मुद्यम्य सस्पृहः । कृत्वांके मस्तकेऽचुंबत्पुनगंडे पुनः करे ॥ १९ ॥ अपि लक्ष्मण किन्ते स्यादिदं संजातमीदृशम् । न येन मुंचसे निद्रां सकृदेव निवेदय ॥ २० ॥ इति स्नेहग्रहाविष्टो यावदेष विचेष्टते । महामोहकृतासंगे कर्मण्युदयमागते ॥ २१ ॥ तावद्विदितवृत्तान्ता रिपवः क्षोभमागता । परे तेजसि कालास्ते गर्जन्तो विषदा इव ॥ २२ ॥ विरोधिताशया दूरं सामर्षा सुंदनंदनम् । चारुरत्नाख्यमाजग्मुरसौ कुलिशमालिनम् ॥ २३ ॥ ऊचे च मद्गुरो यन नीत्वा सोदरकारको । पातालनगरे चासो राज्येऽस्थापि विराधितः॥२४॥ वानरध्वजिनीचन्द्रं सुग्रीवं प्राप्य बांधवम् । उदन्तोऽलंभि कान्ताया रामेणाऽऽतिमता ततः ॥२५॥ उदन्वतं समुल्लंघ्य नभोगैर्यानवाहनैः । द्वीपा विध्वंसितास्तेन लंकां जेतुं युयुत्सुना ॥ २६ ॥ सिंहताय॑महाविद्ये रामलक्ष्मणयोस्तयोः । उत्पन्ने बंदितां नीतास्ताभ्यामिन्द्रजितादयः ॥२७॥ चक्ररत्नं समासाद्य येनाऽघाति दशाननः । अधुना कालचक्रेण लक्ष्मणोऽसौ निपातितः ॥२८॥
३-२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org