Book Title: Nyayavatar Sutra
Author(s): Sukhlal Sanghvi
Publisher: Shardaben Chimanbhai Educational Research Institute
View full book text
________________
ભાયાતાર
साध्याविनाभुवो हेतोर्वचो यत् प्रतिपादकम् । परार्थमनुमानं तत् पक्षादिवचनात्मकम् ।।१३।। साध्याभ्युपगमः पक्ष प्रत्यक्षाद्यनिराकृतः। तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः ॥१४॥ अन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः । प्रत्याय्यस्य भवेद्धेतुर्विरुद्धारेकितो यथा ॥१५॥ धानुष्कगुणसम्प्रेक्षिजनस्य परिविध्यतः । धानुष्कस्य विना लक्ष्यनिर्देशने गुणेतरौ ॥१६।। हेतोस्तथोपपत्त्या च स्यात् प्रयोगोऽन्यथापि वा। द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥१७॥ साध्यसाधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् । साधर्येण स दृष्टान्तः सम्बन्धस्मरणान्मतः ॥१८॥ साध्ये निवर्तमाने तु साधनस्याप्यसम्भवः । ख्याप्यते यत्र दृष्टान्ते वैधर्येणेति स स्मृतः ।।१९।। अन्तर्व्यात्यैव साध्यस्यसिद्धेर्बहिरुदाहृतिः । व्यर्था स्यात् तदसद्भावेऽप्येवं न्यायविदो विदुः ॥२०॥ प्रतिपाद्यस्य: यः सिद्धः पक्षाभासोऽक्षलिङ्गतः। लोक-स्ववचनाभ्यां च बाधितोऽनेकधा मतः ॥२९॥ अन्यथाऽनुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीतिसन्देहे विपर्यासैस्तदाभता ॥२२॥ असिद्धस्त्वप्रतीतो यो योऽन्यथैवोपद्यते । विरुद्धो योऽन्यथाप्यत्र युक्तोऽनैकान्तिकः स तु ॥२३॥ साधयेणात्रदृष्टान्तदोषा न्यायविदीरिताः । अपलक्षणहेत्तूत्था: साध्यादिविकलादयः ॥२४॥ वैधhणात्रदृष्टान्तदोषा न्यायविदीरीताः । साध्यसाधनयुग्मानामनिवृत्तेश्च संशयात् ॥२५॥ वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् । दूषणं निरवद्ये तु दूषणाभासनामकम् ॥२६॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58