Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ लघीश६] स्वसंवेदनवादः . 179 अनुपपद्यमानतामात्रस्याऽगमकत्वात् / न हि धूमादयोऽनुपपद्यमानतामात्रेण गमकाः ; नालिकेरद्वीपाऽऽयातं प्रत्यपि तेषां गमकत्वप्रसङ्गात् / किं तर्हि ? ज्ञाताः सन्तः, तथा अर्थोऽपि ज्ञातत्वविशिष्टतया ज्ञात एव ज्ञानस्य गमको युक्तः इति / . अथ अर्थातिशयो लिङ्गम् , न कोऽयम् अर्थस्य अतिशयो नाम ? 'प्राकट्यम्' इति चेत् / तत् किं ज्ञानम् , ज्ञानविषयत्वम् , प्रकाशतामात्र वा ? यदि ज्ञानम् ; तदा तस्याऽसिद्ध- 5 त्वात् कथं लिङ्गत्वम् ? न च आत्मसिद्धौ आत्मन एव लिङ्गत्वं कापि प्रतिपन्नम् येनाऽत्रापि तथा कल्प्येत / अथ ज्ञानविषयत्वम् ; तदपि 'ज्ञानाऽसिद्धौ न सिद्धयति' इत्युक्तम् / अथ प्रकाशतामात्रम् ; तदपि ज्ञानधर्मः, अर्थधर्मः, उभयधर्मः, स्वतन्त्रं वा स्यात् ? यदि ज्ञानधर्मः ; तर्हि 'ज्ञानं प्रकाशते' इत्येतावदेव प्राप्नोति, न पुनः 'अर्थः प्रकाशते' इति, अन्यधर्मस्य अन्यत्र व्यपदेशाऽहेतुत्वात् / यो यद्धर्मो न भवति न स तत्र तथा व्यपदेशहेतुः यथा पट- 10 रक्तता रजते, न भवति च ज्ञानधर्मतया प्रकाशमानता अर्थस्य धर्मः, तस्मान्न ‘अर्थः प्रकाशते' इति व्यपदेशहेतुरिति / अथ अर्थधर्मः ; स किं साधारणः, असाधारणो वा ? प्रथमपक्षे सर्वदा सर्वान् प्रति अविशेषेणैव अर्थोऽवभासेत न तु कदाचित् कञ्चन प्रति, प्रकाशरूपतायाः सर्वान् प्रत्यविशिष्टत्वात् / न खलु प्रदोपः प्रकाशरूपतामापन्नः 'किञ्चित्प्रकाशते किञ्चिन्न' इति नियमो दृष्टः / अथ यदिन्द्रियेण उपकृतः अंसाधारणतद्धर्मोऽर्थः सम्पन्नः तस्यैव प्रका- 15 शते नान्येषाम् / ननु इन्द्रियाणां स्वार्थप्रकाशकज्ञानजननात् नाऽपरं तदुपकारकत्वं प्रतीयते, एतच्च तज्ज्ञानस्य अर्थधर्मत्वे सर्वान् प्रति अविशिष्टम् / न हि 'नीलताद्यर्थधर्मः येनैव जन्यते तस्यैव प्रकाशते' इति नियमो दृष्टः / किञ्च, अर्थप्रकाशात् नित्यपरोक्ष ज्ञानेऽनुमीयमाने 'ज्ञानं मम अभूत' इत्यनुमानं स्यात् तस्य तत्प्रकाशात् पूर्वकालभावित्वात् , तथाभूतस्य च ज्ञानस्याऽनुमाने स्व-परसम्बन्धित्वविभागो दुर्लभः स्यात्।। ___किञ्च, मुख्यतः अर्थस्य प्रकाशमानता धर्मः, उपचारतो वा स्यात् ? न तावन्मुख्यतः ; ज्ञानाऽनपेक्षया तत्र तत्सिद्धिप्रसङ्गात् / यत्र हि यत्स्वरूपं मुख्यतः प्रसिद्धम् तत्र तत् पराऽनपेक्षम् यथा वह्नौ भासुररूपोष्णस्पर्शस्वरूपम्, मुख्यतोऽभ्युपगम्यते च अर्थे प्रकाशमानताधर्मः, तस्मात् ज्ञानाऽनपेक्ष एव स्यात्, न चैवम् , ज्ञाने सत्येव सर्वदा तत्र तत्प्रतीतः / उपचारतः तत्र तद्धर्माऽभ्युपगमे तु न किञ्चिदनिष्टम् , मुख्यतो हि प्रकाशमानता ज्ञानस्य धर्मः, 25 सा तद्विषयत्वाद् अर्थे उपचर्यते। कुतः पुनर्ज्ञानस्योत्पद्यमानस्य स्वपरप्रकाशता भवतीति चेत् ? स्वाभाव्यात् दिवाकरस्य करसम्पत्तिवत्, न हि दिवाकरस्य करसम्पत्तिः केनचित् क्रियते, तथा अत्र स्वपरप्रकाशता इति / तथा च अस्य स्वसंविदितत्वसिद्धे, ततस्तस्य अनुमेयताऽनुप 20 1 अनुपपद्यता-भां० / 2 ननु युक्तोऽयम् भां०, श्र० / 3 तथापि भां०, श्र०। 4 असाधारणधर्मोऽर्थः भां०, श्र० / 5 प्रकाशेत आ०, भां० / 6 ज्ञानविषयत्वात् / ७-द्वेः तस्य श्र.।

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598