Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 573
________________ लघी० प्रमाणप्र० का०८] क्षणभङ्गवादः 383 साध्यविकलश्च दृष्टान्तः ; घटादीनां क्षणमात्रस्थायित्वाऽप्रसिद्धः / माभूद् दृष्टान्तः किं तेन साध्यम्, हेतोर्विपक्षे बाधकप्रमाणाद् गमकत्वोपपत्तेः ? ननु बाधकं प्रमाणं किं विपक्षाऽभावमवबोधयति , हेतोस्ततो व्यतिरेकम्, प्रतिबन्धं वा प्रसाधयति ? प्रथमपक्षे 'असन्तः अक्षणिकाः पदार्थाः क्रमयोगपद्याभ्यामर्थक्रियाकारित्वरहितत्वात् खपुष्पवत्' इत्यत्र बाधकाऽनुमाने हेतोः आश्रयासिद्धत्वम् / विकल्पारूढस्य आश्रयत्वे न कश्चिद्धेतुः आश्रयाऽसिद्धः स्यात् 5 सर्वत्र तथा तसिद्धिसंभवात् / नापि विपक्षाद् व्यतिरेकस्तेन प्रसाधयितुं शक्यः; अप्रतिपन्ने धर्मिणि तदाश्रयव्यतिरेकस्य गृहीतुमशक्यत्वात् / यदि च व्यतिरेकः कदाचित् कुतश्चित् प्रमा- . णात् प्रतिपन्नः स्यात्, तदा तदविनाभाविलिङ्गदर्शनात् असौ प्रसाधयितुं युक्तः अग्निधूमवत् , न च तत्प्रतिपत्तिः कुतश्चिदस्ति / सा हि प्रत्यक्षतः, अनुमानतो वा स्यात् ? न तावत् प्रत्यक्षतः; व्यतिरेकस्य व्यावृत्तिरूपतया अवस्तुत्वेन तदहेतुत्वतः तदगोचरत्वात् / तद्गोचरत्वे वा 10 तद्धेतुत्वेन वस्तुत्वापत्तौ अर्थक्रियाकारित्वलक्षणसत्त्वस्य तत्र अक्षणिकेऽपि गतत्वात् अनैकान्तिकत्वम् / न खलु व्यावृत्तेः भवताऽपि क्षणिकत्वम् इष्टम् , स्वलक्षणस्यैव तत्प्रतिज्ञानात् / अनुमानतस्तत्प्रतिपत्तावपि एतदेव दूषणम् / ___नापि बाधकात् प्रतिबन्धसिद्धिः / सत्त्व-क्षणिकत्वयोः प्रतिबन्धोऽपि व्यतिरेकग्रहणपूर्वक एव, न च अगृहीतेऽपि विपक्षे तद्वयतिरेको गृहीतुं शक्यते अतिप्रसङ्गात्। गृहीते च प्रति- 15 बन्धः तयोर्दुर्लभः स्यात् / किञ्च, क्षणिकत्वस्य अनुमानगम्यत्वे वस्तुत्वं न स्यात् ; अनुमानस्य व्यावृत्तिविषयत्वात् , तस्याश्च अवस्तुत्वात् / .. किञ्च, इदं क्षणिकत्वं नीलादन्यत्र अर्थान्तरे वर्तते, न वा ? यदि न वर्त्तते; कथं तस्य क्षणिकत्वं ? वर्त्तते चेत् ; तद्वत् नीलमनुवर्त्तते, न वा ? नाऽनुवर्तते चेत् ; कथं नीलादस्याऽभेदः ? अनुवर्तते चेत् ; तर्हि तदपि नीलमेव स्यात् इति वस्तुव्यवस्थाविलोपः / न च वृक्षशिंश- 20 पादावपि अयं दोषः तुल्यः; सांशवस्तुवादिनः केनचिद् रूपेण शिंशपादितो वृक्षादेः अनुवृत्तेावृत्तेश्च उपपद्यमानत्वात् / किञ्च, क्षण-लव-मुहूर्तादयः कालविशेषाः, न च बौद्धैः कालोऽभ्युपगम्यते इति विशेषणस्य असिद्धत्वात् कथं 'क्षणोऽस्यास्ति' इति क्षणिकः अर्थः स्यात् ? परिकल्पितेन च क्षणेन क्षणिकत्वं न वास्तवं स्यात् , क्षणिकत्वस्य च अवास्तवत्वे अक्षणिकत्वमेव वास्तवं स्यात् 25 प्रकारान्तराऽसंभवात्। .. किञ्च इदं क्षणिकत्वम्-क्षणस्थायित्वम् , क्षणानन्तरमभावो वा ? यदि क्षणस्थायित्वम् ; . 1 “संज्ञामात्रेण कालस्याभ्युपगमात् , न च संज्ञामात्रं वस्तु विशेषणत्वेन युक्तमिति / " तत्त्वसं• पं० पृ० 142 / 2 परिकल्पिते च आ० / 3 स्यात् क्षणानन्तरक्षणिकत्वस्य च वास्तवत्वे भां० / स्यात् क्षणानन्तरक्ष-श्र० /

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598