Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 579
________________ लघी० प्रमाणप्र० का० 8 ] . क्षणभङ्गवादः 389 गमात् / ततो विनाशं प्रति अन्याऽनपेक्षत्वम् असिद्धं भावानाम् ; मुद्रादेः तं प्रति तैरपेक्षणात् / 'यो यद्भावं प्रति अन्याऽनपेक्षः' इति च अनश्वरत्वेऽपि समानम् / किञ्च, अत्र अन्याऽनपेक्षत्वमानं हेतुः, तत्स्वभावत्वे सति अन्याऽनपेक्षत्वं वा ? प्रथमपक्षे यवबीजादिभिः अनेकान्तः, शाल्यकुरोत्पादनसामग्रीसन्निधानावस्थायां तदुत्पादने अन्याऽनपेक्षाणामपि एषां तत्स्वभावनियतत्वाऽभावात् / द्वितीयपक्षे तु विशेष्याऽसिद्धो हेतुः तत्स्व- 5 भावत्वे सत्यपि अर्थानां विनाशं प्रति. अन्याऽनपेक्षत्वाऽभावप्रतिपादनात् / भागे विशेषणाऽसिद्धश्च तत्स्वभावत्वे सति अन्यानपेक्षत्वम् ; द्रव्यादीनां विनाशस्वभावाऽभावात् / दृष्टान्तश्च साधनविकलः; अन्त्यकारणसामग्र्याः स्वकार्योत्पादने द्वितीयक्षणाऽपेक्षया अनपेक्षत्वाऽसंभावात् , न हि अन्त्या कारणसामग्री स्वकार्योत्पादनस्वभावाऽपि द्वितीयक्षणाऽनपेक्षा तदुत्पा. दयति प्रतीतिविरोधात्। ____ यदपि 'शत-सहस्रक्षणस्थायि' इत्युक्तम् / तदप्ययुक्तम् / यतः स्वकारणकलापतः प्रथमक्षणादन्त्यक्षणं यावत् शतसहस्रक्षणस्थायी जातोऽर्थः द्वितीयादिक्षणेऽपि तत्स्वभावं न परित्यजति अन्त्यक्षणं यावत् / __ यदप्यभिहितम्-'यद् यथाऽवभासते' इत्यादि; तदप्यभिधानमात्रम् ; हेतोरसिद्धः, नहि नीलमवभासमानं क्षणिकत्वेन अवभासते, अन्यथा नीलवत् 'क्षणिकोऽयम्' इत्यपि उल्लेखः 15 स्यात् / 'यदेव विकल्पेन परामृश्यते तदेव अध्यक्षगोचरः' इत्यभ्युपगमात् / न च नीलावभास एव क्षणिकाऽवभासः; प्रत्ययवैलक्षण्यात् / तद्वैलक्षण्येऽपि अस्य क्षणिकत्वाऽवभासस्वभावत्वे अक्षणिकत्वाऽवभासस्वभावत्वमपि अस्तु विशेषाऽभावात् , न हि अन्याकारम् अन्यपरिच्छेदे समर्थम् अतिप्रसङ्गात् / न च वर्तमानताग्रहणमेव क्षणिकताग्रहणम् ; अनिमेषलोचनस्य अक्षणिकतायामपि वर्तमानताग्रहणस्य प्रतिपादनात् / तदेवं क्षणिकत्वस्य विचार्यमाणस्य अनुपपत्तेः 'प्रतिक्षणं विशरारवो रूपरसगन्धस्पर्शशब्दपरमाणवः ज्ञानञ्च' इति सौत्रान्तिकमतमपास्तम् , 'ज्ञानमात्रमेव क्षणस्थितिधर्मकं तत्त्वम्' इति योगाचार-माध्यमिकमतञ्च; बहिरर्थसिद्धथा आत्मादितत्त्वान्तरसिद्धथा च प्रत्येकतः तन्मतनिराकरणं प्रागेव विशेषतो विहितमिति नेह पुनरभिधीयते / वैभाषिकमतं तु क्षणभङ्गनिराकरणात् निराकृतमपि तन्मतप्रक्रियां प्रदर्श्य विशेषतो निराक्रियते / तथाहि- . 25 १“परिणामस्वभावः स्याद्भावः तत्रानपेक्षणात् / अयमर्थक्रियाहेतुः अन्तरेण निरन्वयम् // " न्याय. विनि० 2 / 132 / पृ० 491 उ० / २-पेक्षित्व-ब०, ज० / “किंच अन्यानपेक्षत्वमात्रं हेतुः, तत्स्वभावखे सति." प्रमेयक० पृ० 145 पू० / 3 इत्याद्युक्तम् श्र० / पृ० 376 10 18 / 4 पृ. 378 पं० 17 / 5 अक्षणिकाव-ब०, ज.।

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598