Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ लघी० प्रमाणप्र० का०८] प्रतीत्यसमुत्पादवादः नाप्रत्यया तृष्णा, तृष्णाप्रत्ययम् उपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्ययं जरामरणमिति / तत्र क्षणिक-निरात्मक-अशुचि-दुःखरूपेषु भावेषु तद्विपरीतज्ञानम् अविद्या। संस्काराः पुण्य-अपुण्य-अनुभयप्रकाराः शुभ-अशुभ-मिश्राचरणहेतवः अनेकप्रकारा रागादयः / वस्तुप्रतिज्ञप्तिः विज्ञानम् , तच्च षट् प्रकारम्-पञ्चेन्द्रियविज्ञान-स्मृतिविकल्पभेदात्। रूप-वेदना-संज्ञा-संस्कारलक्षणस्कन्धचतुष्टयं नामरूपम् / तत्र रूपस्कन्धः-'पञ्चेन्द्रि- 5 याणि, पञ्च तदर्थाः, अविज्ञप्तिश्च' इत्येकादशधा / तत्र अविज्ञप्तिः प्राणिनां शरीरोपादानभूता शुभ-अशुभ-अनुभयाचरणाज्जाता कन्चुकप्रख्या, सा च अयोगिनामप्रत्यक्षत्वाद् ‘अविज्ञप्तिः' इति अन्वर्थेन उच्यते / तदर्थाः पृथिव्यादिभूतानि भवन्ति भावयन्ति च अनुग्रह-उपतापरूपतया' इति भूतानि / आकाशं च छिद्रम् , तच्च आलोक-तमःपरमाणुभ्यो नाऽन्यत् इति न पृथक् परिगण्यते। तानि च 'पृथिवीधातुः' इत्यादि संज्ञान्तरमपि प्रतिपद्यन्ते, उत्पत्तिस्था- 10 नत्वात् ताम्रादिधातुवत् / सुख-दुःख-असुखदुःखानुभवो वेदना त्रिप्रकारा / पदार्थानां निमि'त्तोद्ग्रहणं संज्ञा विमर्शः, यथा 'रूपणात् रूपम् ,धारणात् धातवः, अर्थक्रियायां घटनात् घटः' इत्यादिरनेकप्रकारा / संस्कारोऽपि रागादिभेदाद् अनेकधा / विज्ञानं तु नामरूपशब्दवाच्यमपि स्कन्धशब्देन उच्यते, राशीभूतत्वस्य पञ्चानामप्यविशेषात् ; तथाहि-रूपम् एकादशात्मको राशिः, वेदना त्र्यात्मकः, संज्ञा संस्कारश्च अनेकात्मकः, विज्ञानं षडात्मकः इति। 15 - एते एवं च दुःखशब्दवाच्याः / साश्रवास्ते एव कारणभूताः समुदयः, आश्रवति संसारो येभ्यः ते आश्रवाः अविद्यारागादयः तैः सह वर्तन्ते इति साश्रवाः / निराश्रवास्ते एव मार्गः / भा० भामती 2 / 2 / 19 / तत्त्वार्थराजवा० पृ. 9 / अष्टसह. पृ. 364 / “सः प्रतीत्यसमुत्पादो द्वादशांगः त्रिकाण्डकः / पूर्वाऽपरान्तया द्वे मध्येऽष्टौ परिपूरणाः // 20 // पूर्वक्लेशदशाऽविद्या संस्काराः पूर्वकर्मणः / सन्धिस्कन्धास्तु विज्ञानं नामरूपमतः परम् // 21 // प्राक् षडायतनोत्पादात् तत्पूर्व त्रिकसंगमात् / स्पर्शः प्राक् सुखदुःखादिकारणज्ञानशाक्ततः // 22 // वित्तिः प्राङ्मैथुनात् तृष्णा भोगमैधनरागिणः / उपादानं तु भोगानां प्राप्तये परिधावतः // 23 // स भविष्यद्भवफलं कुरुते कर्म तद्भवः / प्रतिसन्धिः पुनर्जातिः जरामरणमाविदः // 24 // क्लेशः त्राणि द्वयं कर्म सप्तवस्तु फलं तथा / फल हेत्वभिसक्षेपो द्वयोर्मध्यानुमानतः // 26 // अविद्या-तृष्णा-उपादानानि त्रीणि क्लेशः, संस्कार-भवौ कर्म, विज्ञाननामरूपषडायतनस्पर्श वेदनाजातिजरामरणानि वस्तूभूतान्येव अंगानि फलभूतान्यपि आदिमयोः भविद्यासंस्कारयोः हेतुसंज्ञा, अन्त्ययोः जातिजरामरणयोः फलसंज्ञा च // 26 // हेतुरत्र समुत्पादः समुत्पन्नाः फलं मतम् // 28 // " अभिधर्मकोश तृतीयकोश / .1 "विज्ञानं प्रतिविज्ञप्तिः / " अभिध० 1116 / 2 "नाम त्वरूपिणः स्कन्धाः / रूपभिन्नाः चत्वारः स्कन्धाः ( वेदनासंज्ञासंस्कारविज्ञानाभिधाः) 'नाम' इाते पदेन व्यवाहयन्ते / " अभिध० 3 / 30 / 3 रूपं पञ्चेन्द्रियाण्याः पञ्चाऽवज्ञाप्तरेव च / " अभिध० १।९।४“छिद्रमाकाशधात्वाख्यम् आलोकतमसी किल / " अभिध• 1 / 28 / 5 "वेदनाऽनुभवः / 1 / 14 / " " सुखवेद्यादयस्त्रयः। 3 / 31 // " अभिध०।६ "संज्ञा निमित्तोद्ग्रहणात्मका / " अभिध० 1.14 / 7 " सास्रवाऽनाश्रवा धर्माः संस्कृताः मार्गवर्जिताः / साश्रवा आश्रवास्तेषु यस्मात् समनुशेरते // अनाश्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृताः / " अभिध० 114,5 /

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598