Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 590
________________ 400 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० प्यविचारितरमणीयम् ; द्रव्यादीनामपि परतः सत्त्वे 'यत् सत् तत्स्वात्मभूतेनैव सत्त्वेन' इत्याद्यनुमानबाधस्य प्रतिपादितत्वात् / अतिप्रसङ्ग-वैयर्थ्यलक्षणबाधप्रसक्तेश्च ; तथाहि-स्वरूपेण सतः सत्तासम्बन्धात् सत्त्वं स्यात् , असतो वा ? न तावद् असतः; अतिप्रसङ्गात् , 'यत् स्वरूपेण असत् न तत्र सत्तासम्बन्धः तत्सम्बन्धात् सत्त्वं वा यथा गगनेन्दीवरे, स्वरूपेण असच्च परिष्टं द्रव्यादि' इत्यनुमानबाधप्रसङ्गाच्च / अथ स्वरूपेण सतः ; तर्हि सत्तासम्बन्धवैयर्थ्यम् , यत् स्वयं सत् न तत्र सत्तासम्बन्धात सत्त्वम् यथा सत्तायाम् , स्वयं सच्च सत्तासम्बन्धात् प्रागपि सकलं वस्तु इति / स्वयं सतोऽपि तत्सम्बन्धात् सत्त्वकल्पने सत्तायामपि तत्कल्पनप्रसङ्गात् सैव अनवस्था / अथ न तत्र स्वयं सत्त्वं किन्तु सत्तासम्बन्धादेव; ननु किं तयैव सत्तया सम्बन्धात् 10 तत्र सत्त्वं स्यात् , तदन्तरेण वा ? यदि तयैव; तदा अन्योन्याश्रयः-सिद्धे हि तस्य सत्त्वे सत्तया सम्बन्धसिद्धिः, तत्सिद्धौ च सत्त्वसिद्धिरिति / तदन्तरात् सत्त्वसिद्धौ च अनवस्था ; तथाहि-सत्तान्तरेणाऽपि सम्बन्धः वस्तुनःसत्त्वे सिद्धे सिद्धयेत् , तत्सत्त्वसिद्धिश्च अपरसत्तान्तरेण सम्बन्धात् इति / तन्न अर्थान्तरभूतसत्तासम्बन्धात् सत्त्वम् अर्थानां घटते / नापि अर्थक्रियातः; तेभ्यो भिन्नत्वात् तस्याः / यद् यतो भिन्नं न ततः तस्य सत्त्वं 15 सिद्धथति यथा घटात् पटस्य, अर्थेभ्यो भिन्ना च अर्थक्रिया इति / न च अर्थेभ्योऽस्याः भिन्नत्वमसिद्धम् ; पूर्वोत्तरकालभावित्वेन अस्याः ततो भेदप्रसिद्धः। पूर्वसिद्ध एव हि भावो यत्र कुत्रचिद् अर्थक्रियायां व्याप्रियते / अन्योन्याश्रयंश्च-सिद्धे हि पूर्वम् अर्थस्य सत्त्वे उत्तरकालभाविन्याः तस्याः सिद्धिः, तत्सिद्धौ च तथाविधस्याऽर्थस्य सत्त्वसिद्धिरिति / एतेन अर्थ क्रियाकारित्वात् तत्सत्त्वं प्रत्याख्यातम् ; यतः अर्थक्रियाकारित्वम् अर्थक्रियाहेतुत्वमुच्यते, तच्च 20 सत एव युक्तमित्यन्योन्याऽऽश्रयः-सिद्धे हि सत्त्वे अर्थक्रियाकारित्वसिद्धिः, ततश्च सत्त्वसिद्धिः इति / निरन्वयविनाशित्वे चार्थानाम् अर्थक्रियाकारित्वं प्रपञ्चतः प्रागेव प्रत्युक्तम् / तत्करणयोग्यताऽपि एतेन प्रतिव्यूढा, प्रतिक्षणविनाशिन्यर्थे अर्थक्रियाकारित्वाऽसम्भवे तत्करणयोग्यतायाः नितरामसंभवात् / किञ्च, अर्थक्रियादिकं स्वयं सत् अन्यस्य सत्त्व हेतुः, असद्वा ? पक्षद्वयेऽपि सत्त्वाऽसत्त्वपक्षोक्तदोषा द्रष्टव्याः / तन्न अर्थक्रियादेरपि अर्थानां 25 सत्त्वसिद्धिः। १-वैयर्थ्यबाधकप्र-ब०, ज० / “द्रव्यगुणकर्मणां स्वरूपसत्त्वोपगमे सत्तासमवायस्य वैयर्थ्यात् सामान्यादिवत् , सामान्यादीनां वा सत्तासम्बन्धप्रसंगाद् द्रव्यादिवत् / तेषां स्वरूपसत्त्वानुपगमे कूर्मरोमादिभ्यो विशेषाऽभावात् / " अष्टसह० पृ० 221 / 2 इत्याद्यनुमानबाधप्रसङ्गात् ब०, ज० / ३-दौस- आ० / 4 तत्सत्त्व-ब०, ज०, श्र० / 5 पूर्वसि-श्र० ६-यः सि-आ० / ७विनाशत्वे आ० /

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598