Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ 390 लघीयनयालङ्कारे न्यायकुमुदचन्द्र . [2 विषयपरि० विभाषाम् सद्धर्मप्रतिपादकग्रन्थविशेषं ये अधीयते ते वैभाषिकाः, ते च प्रतीत्यसमुत्पादम. ___ अङ्गीकृत्य विश्ववैचित्र्यमाचक्षते ; तथाहि-प्रतीत्य अन्योन्यं हेतूद्वादशाझं प्रतीत्यसमुत्पादम- कृत्य तां तां सामग्रीमाश्रित्य हेतुप्रत्ययभावेन यस्मिन् संघातेभ्यः ङ्गीकृत्य विश्ववैचित्र्यमभिद- संघाताः प्रभवन्ति प्रधान-ईश्वरादिकारकनिरपेक्षाः सः प्रतीत्यसधतां वैभाषिकाणां मुत्पादः। तस्य च द्वादश अङ्गानि हेतुफलभावेन व्यवस्थितानि; पर्वपक्षः- . तथाहि-अविद्याप्रत्ययः संस्कारः, संस्कारप्रत्ययं विज्ञानम् , विज्ञानप्रत्ययं नामरूपम् , नामरूपप्रत्ययं षडायतनम् , षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेद 1 "विभाषया दीव्यन्ति चरन्ति वा वैभाषिकाः, विभाषां वा विदन्ति वैभाषिकाः / " स्फुटार्थ० पृ० 12 / 2 "हेतून् प्रत्ययान् प्रतीत्य समाश्रित्य यः स्कन्धादीनामुत्पादः स प्रतीत्यसमुत्पादः / " तत्त्वसं० पं० पृ० 15 / "तत्र प्रतीत्यसमुत्पादः शालिस्तम्बसूत्रेऽभिहितः। तत्र आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः यदिदम्-अविद्याप्रत्ययाः संस्काराः यावज्जातिप्रत्ययं जरामरणमिति / " शिक्षासमुच्चय पृ० 219 / " तद्यथोक्तमार्यशालिस्तम्बसूत्रे-एवमुक्त मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रमेतदवोचत् / यदुक्तं भगवता धर्मस्वामिना सर्वज्ञेन / यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्म पश्यति / यो धर्म पश्यति स बुद्धं पश्यति / तत्र कतमः प्रतीत्यसमुत्पादो नाम। यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम् , विज्ञानप्रत्ययं नामरूपम् , नामरूपप्रत्ययं षडायतनम् , षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम् , उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्यादयः ।....तत्राविद्या कतमा-एतेषामेव षण्णां धातूनां यैकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा मनुजसंज्ञा मानवसंज्ञा अहङ्कारममकारसंज्ञा एवमादिविविधमज्ञानमियमुच्यते अविद्या / एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते, तत्र ये रागद्वेषमोहा विषयेषु अमी अविद्याप्रत्ययाः संस्कारा इत्युच्यन्ते / वस्तु प्रतिविज्ञप्तिर्विज्ञानम् / चत्वारि महाभूतानि च उपादानानि रूपम् ऐकध्यरूपम् , विज्ञानसंभूताश्चत्वारोऽरूपिणः स्कन्धा नाम, तन्नामरूपम् / नामरूपसन्निधितानि इन्द्रियाणि षडायतनम् / त्रयाणां धर्माणां सन्निपातः स्पर्शः / स्पर्शानुभवो वेदना / वेदनाध्यवसानं तृष्णा। तृष्णावैपुल्यमुपादानम् / उपादाननिर्जातं पुनर्भवजनकं कर्म भवः / भवहेतुकः स्कन्धप्रादुर्भावो जातिः / जात्यभिनिर्वृत्तानां स्कन्धानां परिपाको जरा। स्कन्धविनाशो मरणमिति / " बोधिचर्या. पं० पृ. 386 / शिक्षासमु० पृ. 222 / माध्यमिकका० पृ. 564 / मध्यान्तवि. सू० टी० पृ० 42 / “पुनरपरं तत्त्वेऽप्रतिपत्तिं मिथ्याप्रतिपत्तिः अज्ञानम् अविद्या / एवम् अविद्यायां सत्या त्रिविधाः संस्कारा अभिनिवर्तन्ते-पुण्योपगा अपुण्योपगा आनेज्योपगाश्च इम उच्यन्ते अविद्याप्रत्ययाः संस्कारा इति / तत्र पुण्योपगानां संस्काराणां पुण्योपगमे च विज्ञानं भवति, अपुण्योपगानां संस्काराणाम् अपुण्योपगमे च विज्ञानं भवति, आनेज्योपगानां संस्काराणाम् आनेज्योपगमे च विज्ञानं भवति। इदमुच्यते संस्कारप्रत्ययं विज्ञानमिति / एवं नामरूपम् / नामरूपविवृद्धया षडभिः आयतनद्वारैः कृत्यक्रिया प्रवर्तते, तत् नामरूपप्रत्ययं षडायतनमुच्यते।" शिक्षासमु० पृ० 223 / पूर्वपक्षरूपेण तु-ब्रह्मसू. शां.

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598