Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________ 396 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० __ परमार्थसताम् अर्थानाम् सा अर्थक्रिया लक्षणतया मता सौगतस्य , तदभावे तेषां परमार्थसत्त्वमेव न भवेत् इत्यर्थः / कारिकायाः सुगमत्वात् व्याख्यानमकृत्वा परोपहसनव्याजेन 'भावानाम्' इत्यादि समर्थयमानः 'अर्थक्रिया' इत्याद्याह / अर्थस्य स्वज्ञानस्य अन्यस्य विवृतिविवरणम् ___वा दाहादेः क्रिया निष्पत्तिः तस्याम् समर्थं योग्यम् परमार्थसत् “यदेवार्थक्रियाकारि तदेव परमार्थसत् / " [ ] इत्यभिधानात् / अङ्गीकृत्य उररीकृत्य स्वपक्षे पुनः पश्चात् तत्रैव "अशक्तं सर्वम् / " [ ] इति वचनात् अर्थक्रियां स्वयमेव आत्मनैव निराकुर्वन् सौगतः कथमनुन्मत्तः स्यात् पूर्वापरविरुद्धवचनत्वात् मदिराद्युन्मत्तवत् ? 10 अत्र अपरः प्राह-न उत्तरकार्योत्पत्तिलक्षणा अर्थक्रिया भावलक्षणम् विरोधात् / नहि अन्यद् अन्यस्य लक्षणं भवति अतिप्रसङ्गात्। तस्मात् संवित्तः स्वसंविदितायाः आत्मलाभः अर्थकिया इत्याह-'स्व' इत्यादि / स्वशब्देन स्वसंवेदनमद्वयं परामृश्यते तस्य भूतिः आत्म- .. लाभः सैव तन्मात्रम्-नोत्तरकार्यम् , तदेव अर्थक्रियां विपक्षेऽपि पुरुषाद्वैतमतेऽपि कथं निरस्येत ? न कथञ्चित् तत्रापि तदविशेषात् / ननु पुरुषाद्वैते नगरप्रामादिभेदव्यवहारः 15 कथम् ? संविदद्वैतेऽपि कथम् ? इति समानम् / तत्र अयं मिथ्या इति चेत् ; तदितरत्र समानम् इत्याह-'मिथ्या' इत्यादि / मिथ्या भ्रान्तो यो नगरप्रामादिव्यवहारः तम् वा विपक्षे कथन्निरस्येत ? तन्न नित्य-क्षणिकपक्षयोः काचिद् अर्थक्रिया इति कुतः साकारम् अन्यद्वा ज्ञानं तत्र प्रमाणं स्यात् ? अस्तु वा तत्तत्र, तथापि दूषणमाह-'संवित्तेः' इत्यादि / संवित्तः अर्थाकारज्ञानस्य अभेदेऽपि निरंशत्वेऽपि विषयाकारस्यैव नीलाद्याकारस्यैव विषयसाधनवं नीलादिविषयव्यवस्थापकत्वम् नाऽकारान्तरस्य विषयाद्याकारादन्यः संवेदनाद्याकारः तदन्तरं तस्य न विषयसाधनत्वम् सर्वत्र तदविशेषात् इति भावः / ततः तस्माद् विषयाकारस्यैव 'विषयसाधनत्वात् नाऽभेदेऽपि विरुद्धयेत विक्रिया विक्रियैव वा / वितिः-परमार्थंकल्वेऽपि मिथ्याव्यवहारभेदात् ज्ञानस्य अनेकार्थक्रियाकारिणः / 25 प्रतिभासाः परस्परार्थसंवेदिनः तत्त्वं भेदाभेदात्मकं साधयन्ति / एवकारो भिन्नप्रक्रमः 'न' इत्यस्य अनन्तरं द्रष्टव्यः, वाशब्दः इवार्थः, ततोऽय मर्थः सम्पन्नः-अभेदेपि एकत्वेऽपि नैव विरुद्धयेत / कारिकाविवरणम्- काऽसौ ?विक्रिया विकारः, पूर्वाकारपरित्यागाऽजहवृत्तोत्त राकारगमनम् / केव ? इत्याह विक्रियेव, विविधा नाना१दोहादेः ब०,ज०।२-चिदप्यर्थक्रिया श्र० / ३तत्साधनत्वात् भा०,ब०,ज०,०। ४-नक्रमः था। 20

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598