Book Title: Nyayakumudchandra Part 1
Author(s): Mahendramuni
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 585
________________ लघी प्रमाणप्र० का०८] प्रतीत्यसमुत्पादवादः 395 माणुः किन्न स्यात् , तत्र अनन्तद्रव्यारम्भकशक्तीनामपि संभवात् ? अथ स्कन्धरूपतया; तेन्न; एकैकशः परमाणूनां स्कन्धपरिणामाऽसंभवात् , तत्समूहसाध्यत्वात्तस्य / ___ यच्चान्यदुच्यते-"सवितर्कविचारा हि पञ्च विज्ञानधातवः।" [ अभिध० 1 / 32 ] वितर्को हि चित्तस्य स्थूलो विमर्शः, विचारः सूक्ष्मः / न च इन्द्रियोत्थज्ञानानां वितर्कविचारसम्भवे निर्विकल्पकत्वं विरुद्धयते; निरूपण-अनुस्मरण-विकल्परहितत्वेन अविकल्पकत्वात् तेषाम् / 5 तदुक्तम्-"निरूपणाऽनुस्मरणविकल्पनाविकल्पकाः।" [अभिध० 1 // 33 ] निरूप्यते हि अनेन इति निरूपणम् वाचकः शब्दः, अनुस्मरणं विकल्पः / ___ सप्तधातवोऽपि षड् विज्ञानानि मनःसहितानि उच्यन्ते / मनश्च विज्ञानात् नाऽन्यत् “षण्णामनन्तराऽतीतं विज्ञानं यद्धि तन्मनः।" [अभिध० 1 / 17] इत्यभिधानात्। 'एते एव सप्त, रूपस्कन्धधातवश्च एकादश' इति अष्टादश इत्यादि; तदप्यविचारितरमणीयम् ; भवत्क- 10 ल्पिति॑विज्ञानधातूनां सविकल्पकत्वसिद्धौ प्रत्याख्यातत्वात् , रूपस्कन्धस्य च क्षणविशरारोः क्षणभङ्गभङ्गप्रसाधनादेव प्रतिषेधात् / ततो वैभाषिकोपकल्पितद्वादशाङ्गात्मकप्रतीत्यसमुत्पादस्य यथोपवर्णितस्वरूपतया विचार्यमाणस्य अव्यवस्थितेः नाऽस्य जगत्प्रपञ्चरचनालक्षणाऽर्थक्रियाकारित्वं घटते। तदेवं सौगतमतस्य चतुर्विधस्यापि क्षणिकस्वभावस्य विचार्यमाणस्य अनुपपत्तेः न क्षणिकेऽप्यर्थे अर्थक्रिया घटते / न च तदभावे भावानां सत्त्वमुपपद्यते इत्युपदर्शयति-"भावानाम्' इत्यादि। भावानाम् 15 १तत्र आ०, ब०, ज०,भां०।२ “सवितर्कविचारा हि पञ्च विज्ञानधातवः / निरूपणानुस्मरणविकल्पेनाsविकल्पकाः॥” तत्त्वार्थश्लो० पृ० 187 / 'विकल्पनविकल्पकाः' इति पाठभेदेन, तत्त्वार्थराज० पृ० 39 / अभिधर्मकोशे तु-“सवितर्कविचारा हि पञ्च विज्ञानधातवः / अन्त्यास्त्रयः त्रिप्रकाराः शेषा उभयवर्जिताः॥" इति / 3 "वितर्कविचारौदार्यसूक्ष्मते / चित्तस्य औदार्य (स्थूलावस्था) वितर्कः, सूक्ष्मावस्था विचारः।" अभिध० व्या० 2 / 33 / 4 इन्द्रियार्थ-ब०, ज० / ५-ल्पनाः भां०, श्र० / “निरूपणानुस्मरणविकल्पादविकल्पकाः / तौ व्यग्रा मानसी प्रज्ञा सर्वैव मानसी स्मृतिः // 33 // ते निरूपणविकल्पाद् अनुस्मरणविकल्पाच्च अविकल्पकाः सन्ति / मानसी प्रज्ञा या असमाहिता सा एव निरूपणविकल्पः। सर्वा एव मानसी स्मृतिः समाहिता असमाहिता वा अनुस्मरणविकल्पः / " अभिध० व्या० 1 / 33 / 6 "मताः ते धातवः सप्त षड्विज्ञानान्यथो मनः / " अभिध० 1 / 16 / 7 विद्धि आ० / "अण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः / षष्ठाश्रयप्रसिद्धयर्थं धातवोऽष्टादश स्मृताः // 14 // चक्षःश्रोत्रघ्राणजिहाकायमनोविज्ञानानां अनन्वरमतीतं पूर्वकालिकं च यद्विज्ञानं तदेव मन इत्युच्यते / ... चक्षुर्विज्ञानादीनां पञ्चानां सन्ति चक्षुरादयः पञ्च आश्रयाः। षष्ठस्य मनोविज्ञानस्य तु न कोप्याश्रयः प्रसिद्धः तदर्थ मनसो ग्रहणम् / अष्टादशधातवः परिगण्यन्ते षट् चक्षुरादीनि इन्द्रियाणि, षट् चक्षुर्विज्ञानादीनि, पट रूपादयो विषयाः।" अभिध० व्या०.१।१७ / ८-तधातूनां भां०, श्र..

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598